________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல कथञ्चिज्जीवविराधनायां अप्रमत्तमुनिवदयमपि निर्दोष एवेति चेत् ।
न, अप्रमत्तमुनेः सकाशाद् भूमिप्रतिलेखनानन्तरकालीनपदनिषीदनक्रियया या विराधना विकलेन्द्रियादीनां शीघ्रमागमनादिना भवति, तत्र तद्विराधनानिवारकस्य यत्नस्याभावात्तस्य न दोषः, शक्ययतनायाः कृतत्वात् । अत्र तु भूमिप्रमार्जनभूमिनिषीदनयोर्मध्ये क्रियान्तरकरणेऽधिककालविलम्बः, ततश्च जीवविराधना-सम्भवोऽपि, स च क्रियान्तराकरणेन निवारयितुं शक्यः, इति तत्र यदि क्रियान्तरत्यागो न क्रियते, तर्हि शक्ययतनाया अकृतत्वाद्धृवः प्रमाददोषः, ततश्चावश्यं तत्र कर्मबन्धादिदोषः । यदि तु भूमिप्रमार्जनभूमिनिषीदनयोर्मध्ये क्रियान्तराकरणेऽपि शीघ्रं सागमनादिना विराधना भवेत्, तदा तु तत्राऽपि शक्ययतनायाः कृतत्वात् अप्रमत्तभावस्याक्षतत्वादेव जीवविराधनायामपि न कश्चिद् दोष इति दृढं विभावनीयम् ।
इत्थं च शक्ययतना चारित्रप्राणम्, तत्सत्त्वे सत्यामपि विराधनायां चारित्रपरिणामस्य अक्षतत्वात्, तदसत्त्वे पुनः असत्यामपि जीवविराधनायां चारित्रपरिणामक्षतेरवश्यम्भावित्वादिति । तदाहुः द्वयमिह शुभानुबन्धः शक्यारम्भः शुद्धपक्षश्चेति अध्यात्मसारेऽनुभवाधिकारे महोपाध्याया इत्यलमधिकेन ।
ഉയർത്തിരമ്പിളിപ്പിച്ചിരിക്കില്ലർമ്മജർ. (८९) दिवा पुनस्त्वग्वर्तनं न कल्पते, नोक्तं भगवद्भिः, किं सर्वथैव न
कल्पते ? इति, न इत्याह अध्वनि परिश्रान्तस्तथा ग्लानो वृद्धश्च, एते त्रयोऽप्यनुज्ञाप्याचास्तितश्च संस्तारकोत्तरपट्टी आस्तीर्य स्वपन्ति सावकाशं प्रदेशं मुक्त्वाऽभ्यन्तरे स्वपन्ति, मा भूत् सागारिकस्य शङ्का स्यात् यदुतनूनं रात्रौ सुरतप्रसङ्गे स्थितोऽयमासीत् कुतोऽन्यथाऽस्य निद्रेति ।
(ओ.नि.भा. १५६) ອັ໕ຍຂໍຍອ້ຍຂໍຍອັຍຍໍຂໍຂໍຍໍຍອ້ງຍໍຂໍຍອ້ຍຂໍຍອ້ງຂໍຂໍຍໍຂໍອບໍ່ຂໍອອ້ຂໍຂໍຂໍຂໍຍໍຂໍຂໍຍໍ້າ
चन्द्र. सुबोधं सर्वम् । नवरं सुरतं-मैथुनम् । इयं च शङ्का उपलक्षणम् । ततश्च "प्रमादिन एते साधवः" इति "धन्यमेतच्चारित्रम्, यत्र कुटुम्बपरिपोषणाजीविका0000000000000000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
१२१