SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல युक्तम्, अधिककालान्तरे त्रसादिजीवागमनसद्भावात्, ततश्च विराधनाभवनात् प्रमार्जननैरर्थक्यप्रसङ्गात् । इत्थं च पाठोक्तरीत्या भूमिप्रमार्जनभूमिनिषीदनयोर्मध्ये-ऽन्तराभावात् जीवविराधनाऽसम्भवः, भवदुक्तरीत्या करणे तु भूमिप्रमार्जनभूमि-निषीदनयोर्मध्ये उत्कुटुकस्थानस्यान्तरभूतत्वात् जीवविराधनासम्भवः, तस्मान्नैतद् भवदुक्तं युक्तमिति । ननु उत्कुटुकासनमेव न कर्त्तव्यम्, प्रमार्जनानन्तरं निषीदनमेव कर्त्तव्यमिति अन्तराभावान्न दोष इति चेत् सत्यम्, तथाऽपि जङ्घोर्वन्तरालप्रमार्जनस्य तत्सङ्कोचस्य च मध्ये भूमिप्रमार्जनस्यान्तरभूतत्वात्, जनोर्वन्तरालप्रमार्जनस्य निरर्थकत्वसम्भवात् । अयं भावः, यदि हि भवदुक्तरीत्या क्रियेत, तर्हि प्रथमं जोर्वन्तरालस्य संदंशापरपर्यायस्य प्रमार्जनम्, द्वितीयं भूमिप्रमार्जनं तृतीयं च निषीदनं स्यात् । निषीदने संदंशसङ्कोचोऽवश्यंभावी, अत एव तस्य प्रमार्जनं कृतम्, येन सङ्कोचेन संदंशगतजीवविराधनं न स्यात् । परन्तु अत्र भूमिप्रमार्जनस्यान्तरभूतत्वात् तत्र जीवविराधनासम्भवः, ततश्च संदंशप्रमार्जननैरर्थक्यमिति नायं पन्थाः श्रेयान् । ग्रन्थोक्तरीत्या तु संदंशप्रमार्जनानन्तरमेवोत्कुटुकासनं भवतीति तत्र संदंशप्रमार्जनसड्कोचयोर्मध्येऽन्तराभावान्न जीवविराधनासम्भव इति न कश्चिद् दोषः । किञ्च भूमिप्रमार्जनात्पूर्वं भूमिप्रतिलेखनमावश्यकं, तच्चोर्ध्वस्थितेन सता न सम्यक् कर्तुं पार्यते, चक्षुःभूम्योर्मध्ये बह्वन्तरभावात् । ततश्चोत्कुटुकासनस्थितेनैव भूमिप्रतिलेखनं करणीयम्, येन चक्षुःभूम्योर्मध्येऽल्पमेवान्तरं स्यात् । इत्थं चोत्कुटुकासनमावश्यकमेव सञ्जातम्, ततश्च "उत्कुटुकासनमेव न कर्त्तव्यं" इति भवद्वचनं न ग्रहीतुं युक्तमिति पूर्वोक्तः दोषो दुर्निवार इति । ननु गमने तु उर्ध्वस्थितः सन्नेव भूमिं प्रतिलेखयति, तद्वदत्रापि तथाकरणे को दोषः ? इति चेत् न, गमने प्रतिपदमुत्कुटुकासनकरणेन भूमिप्रतिलेखनस्याशक्य-प्रायत्वादेव तत्रोर्ध्वस्थितेन भूमिप्रतिलेखनमनुज्ञातम् । निषीदने तु तच्छक्यमिति तत्तत्रैवानुज्ञातमिति किं न विभाव्यते ? ननु अप्रमत्तो मुनिः प्रतिपदं भूमिं प्रतिलेख्य गच्छन्नपि कदाचिच्छीघ्रमागतं विकलेन्द्रियं विराधयेत् इति शास्त्रे उक्तम् । अत्र च प्रतिलेखनस्य पादनिषीदनस्य च मध्ये क्रियान्तराभावेऽपि विराधना भवति, ततश्च क्रियान्तरसत्त्वे इव क्रियान्तराभावेऽपि विराधनासम्भवात् क्रियान्तराकरणस्याग्रहो निरर्थक इति भूमिप्रमार्जन-भूमिनिषीदनयोर्मध्ये उत्कुटुकासनादिरूपस्य क्रियान्तरस्य करणेऽपि न दोषः, सत्यामपि च तत्र லலலலலலலலலலலலலலலலலலலலலலலலலலலல १२० सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy