SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல अत्र छद्मस्थानां असंसक्तमपि वस्त्रं प्रतिदिनं वारद्वयं किमर्थं प्रतिलेखनीयमिति प्रश्नस्य समाधानं तु ओघनियुक्तिवृत्तिसकाशादेवावगन्तव्यम्, तत्र स्पष्टमुक्तत्वात् । ർത്തിപ്പിനായി തിളപ്പിച്ചിരിപ്പിക്കുട്ടിയിലെ മർമ്മമെല്ലർജിമ്മിക്കൂ. (८७) स्थानं - कायोत्सर्गस्तं कुर्वन् प्रथमं चक्षुषा प्रत्युपेक्षते पश्चात्प्रमार्जयति, तथा निषीदनं उपवेशनम्, त्वग्वर्तनं - स्वपनं तथोपकरणादीनां ग्रहणे निक्षेपे च, आदिग्रहणात्स्थण्डिलमवष्टम्भश्च गृह्यते, एतानि सर्वाणि पूर्व चक्षुषा प्रत्युपेक्ष्य पश्चाद् रजोहरणेन प्रमृज्यन्ते । (ओ.नि.भा. १५१) தரம் மேல் மேல் காத் திரம் கிராம் இரும் pேs Bod episoம் மேல் திருப்திரம் திறப்பமும் தரும் திரும் பிரம் தான் தரும் மேல் நீரும் चन्द्र. सर्वं स्पष्टम् । नवरं दिवसेऽपि सप्रकाशेऽपि स्थाने केवलं प्रत्युपेक्षणं केवलं वा प्रमार्जनं प्रायश्चित्तार्ह भवति, उभयकरण एवाप्रायश्चित्तम् । उभयमपि सुष्ठ करणीयम्, अन्यथा दुष्प्रतिलेखने दुष्प्रमार्जने च पुनःप्रायश्चित्तं भवत्येवेति । अत्र चतुर्भङ्गी (१) अप्रतिलेखनमप्रमार्जनं (२) अप्रतिलेखनं प्रमार्जनं (३) प्रतिलेखनमप्रमार्जनं (४) प्रतिलेखनं प्रमार्जनं । ___ अत्र यश्चतुर्थो भङ्गः, तस्य पुनरपि चत्वारो भङ्गाः, तथाहि (१) दुष्प्रतिलेखनं दुष्प्रमार्जनं (२) दुष्प्रतिलेखनं सुप्रमार्जनं (३) सुप्रतिलेखनं दुष्प्रमार्जनं (४) सुप्रतिलेखनं सुप्रमार्जनम् । अत्र सर्वसंख्यया सप्त भङ्गाः, ननु चतुर्भङ्गीद्वयसद्भावादष्टौ भङ्गा अत्र भवन्तीति चेत् सत्यम्, परन्तु प्रथमचतुर्भङ्गीसम्बन्धी यो चतुर्थो भङ्गः, तस्यैव द्वितीया चर्तुभङ्गीति स भङ्गः पृथग् न गण्यत इति कृत्वा सप्तैव भङ्गाः, तत्र सप्तमो भङ्गः शुद्धः, अपरे तु षड् दोषान्विता इति । __ननु केवलं प्रतिलेखनकरणेऽपि जीवरक्षासद्भावात् कथं तत् दोषान्वितमिति चेत् अतिसूक्ष्मास्त्रसा सुप्रतिलेखनेनापि न दृश्यन्ते, ते च प्रमार्जनेनैव रक्ष्यन्ते इति प्रतिलेखनकरणेऽपि प्रमार्जनमावश्यकं । லைலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः ।
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy