SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல सम्भवति । एतच्च प्रायः शुष्कभक्ते एव सम्भवेत् न तु आर्द्रभक्ते । तत्र मिश्रीभवनसम्भवादिति । ___ अधुना तु पात्रके पृथगाकृष्य भोजनेऽपि पात्रकगतं सर्वमेव संसृष्टं व्यवहीयमाणं दृश्यते, मण्डकमर्मरादिकं तु एकेन हस्तेन गृहीत्वाऽपरहस्ते कृत्वा भक्ष्यमाणं असंसक्तं व्यवहीयमाणं दृश्यते, तदत्र स्वसामाचार्यनतिक्रमेण प्रवृत्तिः कर्तव्येति । ർമയിപ്പിക്കുമെന്നതിനെക്കുറിപ്പിളപ്പിച്ചത്. (८६) संसज्यते-प्राणिभिः सह संसर्गमुपयाति 'ध्रुवं' अवश्यं एतत् वस्त्रादि अप्रत्युपेक्षितं सत्, तेन पूर्वमेव केवलिनः प्रत्युपेक्षणां कुर्वन्ति, यदा तु पुनरेवं संविद्रते, इदमिदानी वस्त्रादि प्रत्युपेक्षितमपि उपभोगकाले संसज्यते, तदा जिनाः केवलिनः प्रत्युपेक्षन्ते न त्वनागतमेव, पलिमन्थदोषात् । (ओ.नि. २५९) चन्द्र. अयमत्र स्पष्टार्थं दृष्टान्तः-सूर्योदयकाले वस्त्रादि प्रतिलेखनीयं, तत्परिभोगश्च द्वितीयप्रहरान्ते कर्तव्यः । ततश्च यदि 'सूर्योदयकाले प्रत्युपेक्षितं तद्वस्त्रं द्वितीयप्रहरान्ते न जीवसंसक्तं भवति' इति यदि केवलज्ञानेन केवलिनो जानन्ति, तदा ते सूर्योदयकाले एव वस्त्रादि प्रतिलेखयन्ति, उपयोगकाले तु विना प्रतिलेखनामेवोपभुञ्जन्ति । यदा तु ते जानन्ति यदुत "अधुना वस्त्रादीदं प्रतिलेख्यते न वा, तथाऽपि उपभोगकाले तु तदवश्यं संसक्तमेव भविष्यति" इति, तदा ते न सूर्योदयकाले प्रतिलेखयन्ति परन्तु द्वितीयप्रहरान्त एव उपभोगकरणकाले प्रतिलेखयन्ति, येन द्विः प्रतिलेखयितव्यं न स्यादिति पलिमन्थदोषो न भवेत् ।। छद्मस्थास्तु प्रतिदिनं नियतकाले एव द्विः प्रतिलेखयन्ति, उपभोगकाले तु पुनरपि प्रतिलेखयन्ति, यदि तद्वस्त्रादि भूम्यादौ निक्षिप्तं स्यात् । नियतकालीनप्रतिलेखनानन्तरं यदि तद् वस्त्रादि भूम्यादौ निक्षिप्तं न स्यात्, तदा तूपभोगकालेऽपि प्रतिलेखनां विनैवोपभुञ्जन्ति, न कश्चित्तत्र दोष इति पूर्वं भावितमप्यविस्मरणार्थं पुनरुक्तमिति ज्ञेयम् । 299999999999098290000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy