________________
ஸ்
google egg
(८१) आयरियअणुकंपाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपयाए अव्वोच्छित्ती कया तित्थे । (ओ.नि. भा. १ )
१०७०७०७०७०७
Poooooooooooooooooooooooooooooo 2,000,000,000
चन्द्र. आचार्यानुकम्पया महाभागो गच्छेोऽनुकम्पितो भवति । गच्छानुकम्पया च तीर्थेऽव्यवच्छित्तिः कृता भवतीति सङ्क्षेपार्थः ।
अत्राह कश्चित् – सुपात्रे भक्तिरनुकम्प्ये चानुकम्पा इति उचितः पन्थाः, आचार्यश्च महत् सुपात्रम्, ततश्च तत्र भक्तिरेव कर्त्तव्या, न त्वनुकम्पा, प्रकृते च पाठे आचार्यं प्रति अनुकम्पा प्रतिपादितेति कथमिदं सङ्गच्छेत । तथा चाह दानद्वात्रिंशिकायां, “अनुकम्प्ये सुपात्रत्वस्य सुपात्रे चानुकम्प्यत्वस्य बुद्धिस्तु दातृणामतिचाराय” इति ।
अत्रोच्यते भक्त्यर्थकमेवेदमनुकम्पापदमिति न दोषः । यदि वा यदुःखोद्धारः स्वस्येष्टः, तद्द्वानेव यदि अनुकम्प्यः तर्हि तादृशानुकम्प्यत्वमत्या क्रियमाणाऽनुकम्पापि नातिचारापादिका, परन्तु तादृश्यनुकम्पायां यदि "अयं मत्सकाशाद्धीनः" इति बुद्धिर्भवेत्, तर्हि तदा क्रियमाणाऽनुकम्पाऽतिचारापादिका ।
तथा चोक्तं द्वात्रिंशिकायामेव → अपरे त्वाहुः तत्र प्रागुक्तं निर्विशेषणमनुकम्प्यत्वं प्रतीयमानं साहचर्यादिदोषेण यदा हीनबुद्धिं जनयति, तदैवातिचारापादकं, नान्यदा । अन्यथाधियो हीनोत्कृष्टयोरुत्कर्षापकर्षबुद्ध्याधानद्वारैव दोषत्वात् । अत एव "न चानुकम्पादानं साधुषु न सम्भवति " आयरियअणुकम्पाए गच्छो... इति वचनात्" इति अष्टकवृत्त्यनुसारेणाचार्यादिष्वपि उत्कृष्टत्वधियोऽप्रतिरोधेऽ ऽनुकम्पाऽव्याहता ← इति ।
इत्थं चाचार्यादिषु यदि हीनत्वबुद्धिर्न भवेत् तर्हि तद्दुः खोद्धारेच्छारूपाऽनुकम्पा नातिचारापादिकेति आचार्यादिष्वपि अनुकम्पा सम्भवति इति निश्चेयम् ।
—
ननु तर्हि “भगवान्वीरो गर्भे मातुरनुकम्पया निश्चलोऽभवत्" इति कल्पसूत्रपाठस्य कोऽर्थः? इति चेत्
०७०७०७ ११४
तत्रापि मातुर्दु:खोद्धारेच्छारुपा अनुकम्पा भगवत्यस्ति, तया च स स्थिरोऽभवत् । न चात्र हीनत्वबुद्धिरस्तीति अनुकम्पा निर्दोषैव ।
ननु तर्हि सुबोधिकावृत्तौ 'साऽनुकम्पा भक्ति:' इति कथं स्पष्टीकृतमिति चेत् लोकव्यवहारानुसरणादित्यवजानीहि । लोके हि मातुः दुःखप्रतिक्रिया नानुकम्पा उच्यते,
२०७०७०७०
सिद्धान्त रहस्य बिन्दुः