SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல सकलाऽपि व्यवस्था, तत्र तैर्मासकल्पादि क्रियते । एतच्च सर्वं श्रावकविरहितेऽपि ग्रामादौ शक्यमेव । न हि तदानीं भद्रका मिथ्यादृष्टिनः साधुभक्ता नासन्, न वा साधवस्तत्र भिक्षार्थं नागच्छन् । ततश्च मासकल्पादिकरणाय श्रावकसद्भावोऽनावश्यकस्तदानीमासीत् । चैत्यालम्बनमपि स्वाध्यायादिप्रकृष्टालम्बनवतां तदानीन्तनसाधूनां नावश्यकतां बिभर्ति । केवलं यदि तदस्ति, तर्हि शोभनम् अथ चेन्नास्ति, नैतावता मासकल्पाप्रायोग्यत्वं क्षेत्रस्येति चैत्यालम्बनाऽभावेऽपि तेषां तत्रावस्थानं कथं नु नाम दुष्टं वक्तुं शक्यं स्यात् ? ___ अधुना तु यदि चैत्यालम्बनावश्यकत्वं साधुसामाचार्यां प्रविष्टं भवेत्, भवतु नाम, न तेन तदानीन्तनसामाचारीबाधः, कालभेदेन सामाचारीभेदस्य प्रत्यक्षसिद्धत्वात् । न च प्रतिदिनं चैत्यदर्शनादेव साधूनां सम्यग्दर्शनशुद्धिरन्यथा तु तन्मालिन्यमिति युक्तिविरहितं वाच्यम् । एवं सति चैत्यपूजादिपरायणैश्चैत्यवास्यादिभिः "प्रतिदिनं चैत्यपूजनादेव साधूनां सम्यग्दर्शनशुद्धिरन्यथा तु तन्मालिन्यं" इत्यपि वक्तुं शक्यं स्यात् । वस्तुतस्तु सालम्बनयोगप्रधानानां गृहस्थानां चैत्यदर्शनादिकमावश्यकतां बिभर्ति, निरालम्बनयोगप्रधानानां तु नेति अधिकारिभेदानुसरणे न कोऽपि दोषः, तदुक्तमष्टकप्रकरणे "अधिकारिवशाच्छास्त्रे धर्मसाधनसंस्थितिः" इति । इदन्तु निर्णेतव्यं शासनरसिकैः मध्यस्थसंविग्नगीताथैः यदुत-चैत्यादिविरहिते क्षेत्रे यदि शासनप्रभावना, जैनेतराणां बाहुल्येन मार्गानुसार्यादिधर्मप्राप्तिश्च सम्यक्तया तथाविधप्रभावकैः कर्तुं शक्येत, तर्हि किं तैस्तत्र गन्तव्यं, वसनीयं न वेति । ജാതിയറിംഹം മഹാമഹം (८०) यदा पुनस्तत्र श्रावककुलेषु चैत्यानि न सन्ति ततोऽसति चैत्यानां भिक्षामेव हिण्डन्तः कथयन्ति (दानादिकुलानि) (ओ.नि.भा.१२) ຂໍ້ຍທໍ້ ຂໍ້ ຂໍ້ ຂໍຍໍຂໍຂໍຍໍຂໍຍໍຂໍຍໍຍໍຂໍຍໍ້ຍທໍ້ ຂໍຍໍຂໍຍໍຄໍຂໍຍໍຍຂໍຍໍຂໍຍໍຂໍຍໍຂໍຍອ້ງ चन्द्र. एतच्च प्रागेव भावितम्, यदुत श्रावकसद्भावेऽपि चैत्याभावः कथं सम्भवेदिति न भूयो भाव्यते । ____ ननु मा भवतु गृहचैत्यम्, सङ्घचैत्यं तु भवेदेवेति चेत् न यदि हि सङ्घचैत्यं स्यात्, तर्हि "असति गृहचैत्यानां सङ्घचैत्यं वन्दन्तः कथयन्ति" इत्येवमवक्ष्यट्टीकाकृत् । 0900000000000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः ११३
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy