________________
6969696x
१८७०७७
७०७०७
മഹാസമരം
(७७) यो धर्मकथालब्धिसंपन्नः, स पूर्वमेव गत्वा शय्यातराय वसतेर्बहिर्धर्मकथां करोति । न चासौ धर्मकथां कुर्वन् अभ्युत्थानं करोति ज्येष्ठार्याणाम् । आह किमाचार्यागमने धर्मकथी अभ्युत्थानं करोति उत नेति ? आचार्य आह- अवश्यमेवाभ्युत्थानं आचार्यस्य करोति । (ओ.नि. भा. १११
)
pooooooooooooooooooooooooooooooooooooooooo
चन्द्र. मासकल्पप्रायोग्ये स्थाने प्राप्तो गच्छः वसतिं प्रवेष्टुमिच्छति, तत्र च को विधिरित्यत्र प्रतिपादितम् । अत्र हि धर्मकथालब्धिसम्पन्नस्य धर्मकथाव्यापृतत्वकारणाज्ज्येष्ठार्याणामभ्युत्थानं निवारितम् । अनेन च ज्ञायते यत् धर्मकथाव्यापृतत्वाभाव-दशायान्तु ज्येष्ठार्याणामपि अभ्युत्थानादिकं कार्यम् । तथा चोपाश्रयेऽपि साधुभिः स्वस्थानमागच्छतां ज्येष्ठार्याणां अभ्युत्थानं करणीयम्, न तूपविष्टेनैव भवितव्यमिति ।
१०७
सिद्धान्त रहस्य बिन्दुः
രാമന
(७८ ) यदा तु पुनराचार्यस्य धर्मकथालब्धिर्न भवति, तदा शिष्यं नियुङ्क्ते धर्मकथाकथने । (ओ.नि. भा. ११४)
000000000000000000000000005
चन्द्र. ननु चित्रमिदं यदाचार्यस्य धर्मकथालब्धिराहित्यम्, धर्मकथालब्धेरेवाचार्यस्य प्रधानगुणत्वात् । तदुक्तं "तित्थयरसमो सूरि सम्मं जो जिणमयं पयासेइ" इति । अत्र तीर्थंकरसमत्वं सूरेः सम्यक् जिनमतप्रकाशनगुणेन प्रतिपादितम् । ततश्च जिनमतप्रकाशनमेवाचार्यास्य प्रधानगुण इति ज्ञायते । एतदेव यदि आचार्यस्य न भवेत्, कथं तर्हि तस्याचार्यत्वं ? कथं तद्गुरुणा तस्मै आचार्यपदं प्रदतमिति चेत्
न, जिनमतप्रकाशनगुणसत्त्वेऽपि धर्मकथालब्धिराहित्यसम्भवान्न दोषः ।
ननु किमिदमसम्बद्धं भाष्यते, जिनमतप्रकाशनं धर्मकथालब्धिश्चैक एव गुणः, न तयोर्भेद इति चेत्
199
१११