SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல ായിയായിയായിയാമായി (७४) उत्सर्गतस्तावत्प्रावरणरहितः स्वपिति, अथ न शक्नोति यापयितुमात्मानं ततोऽसंस्तरमाणः प्रावृणोति एकं कल्पम्, एवं द्वौ त्रीन् वा, तथाऽपि यदि शीतेन बाध्यते, तदा बाह्यतोऽप्रावृतः कायोत्सर्ग करोति, ततश्च शीतव्याप्तोऽभ्यन्तरं प्रविशति, तत्र च प्रविष्टो निवातमिति मन्यते, तत्रापि स्थातुमशक्नुवन् कल्पं गृह्णाति, एवं द्वौ त्रींस्तावद्यावत्समाधानं जातम् ... अववाएणं जहा वा समाही होति तहा कायव्वं । (ओ.नि. २१०) ຂໍຂໍ້ ຂໍຍໍຂໍຂໍອບໍ່ຂໍອຣ໌ຂໍຂໍຍໍຂໍຍໍຂໍຍໍບໍ່ຂໍອອໍ&&&&ຄູອໍແອອ້ຍຂໍຍອ້ງຍໍແອອ້າ चन्द्र. सर्वं स्पष्टम् । नवरं अतिरिक्तोपधिपरिग्रहपरिहारार्थमेष विधिः, यदि च तेनाऽपि न समाधानम्, तदाऽन्तेऽपवादेन यथासमाधानं कर्त्तव्यत्वस्य प्रतिपादनात् अतिरिक्तोपधिपरिग्रहोऽपि अनुज्ञात इति । अपवादेन तथाकरणे तु न पञ्चममहाव्रतभङ्ग इति । ननु गृहस्था अपि शीतत्रस्ता यथासमाधानं परिग्रहादिकं सर्वं कुर्वन्ति, यदि च साधुरपि तथा करोति, तदा को विशेषस्तयोरिति चेत् परिणामकृतो महान्भेदस्तयोः । तथाहि - सुविहिताः साधवः प्रथमं तु परिग्रहाकरणार्थं शीतसहनायैव यतते, तथाऽपि यदि सोढुं न शक्नुवन्ति, तदा परिग्रहं परिगृह्णन्ति गृहस्थास्तु सुखशीलताव्या-कुलितान्तःकरणाः प्रथमत एव परिग्रहादिकं कुर्वन्ति । किञ्च "यदि अहं अधिकपरिग्रहेण शीतत्राणं न कुर्यां, तहि आर्तध्यानान्मम प्रभूतकर्मबन्धो भवेत् । तथाऽऽर्तध्यानपीडितोऽहं स्वाध्यायादिकमपि न सम्यक्कर्तुं पारयेयम् । तथाऽऽर्तध्याने निद्राऽभवनात् दिनेऽपि सकलसंयमयोगा निद्रादिव्याकुलितत्वेन बाधिताः स्युः । इत्थं च मम मोक्षमार्गाराधनं तु दूरे, प्रत्युत महती हानिर्मोक्षमार्गस्य । तस्मान्मया केनाऽपि प्रकारेण यतनया शीतत्राणं कार्यं" इति शुभपरिणामादेव सुविहिताः परिग्रहादिकं अपवादतः कुर्वन्ति । न च गृहस्थास्तथेति महान्भेदस्तयोः स्पष्ट एव । ___यदि तु मुनयोऽपि गृहस्थवत् केवलं दुःखद्विषः सुखलिप्सवश्च भूत्वा सुखशीलतापारवश्यात् अधिकोपध्यादिकं परिगृह्णन्ति, तर्हि तेऽपि न निर्दोषा इति निष्पक्षपातेन मनसा निर्णेतव्यम् । ஒஷைஷைஷைலு ஓஷஷஷஷலலைலைலைலை सिद्धान्त रहस्य बिन्दुः १०९
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy