SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல __इदम् । यदा कायिकार्थं रात्रौ उत्तिष्ठति, तदा 'निद्राऽल्पकालीनैवाभूत्' इति कृत्वा स निद्राव्याकुलितः सम्भवेत् । ततश्च तद्दशायां प्राक्तनाः संस्काराः प्रादुर्भवन्ति । ततश्च साधुरपि सन् गृहस्थकालीनसंस्कारप्रादुर्भावात् तत्तुल्यां प्रवृत्तिमाचरेत्, उपयोगे दत्ते तु 'अहं प्रव्रजितः' इत्युपयोगेन गृहस्थकालीनसंस्कारनिरोधात्साधूचितप्रवृत्तिमेवाचरेत् । एवं पूर्वदिनेषु अधस्तलस्थानस्थितत्वात्तद्पाः संस्काराः भवेयुः, ततश्चाद्योपरितलस्थानस्थितत्वेऽपि पूर्वदिनसंस्कारस्य निद्राव्याकुलितदशायां प्रादुर्भावाद् अधस्तनस्थानस्थिततुल्या प्रवृत्तिर्भवेत् । एवं चात्मविराधनादि दोषाः स्पष्टा एव । ___ एवं कालानुपयोगे सति दिवससंस्कारप्रादुर्भावाद् भिक्षाटनाय निर्गमनादिकमपि स्यात्, तदुपयोगे तु दत्ते रात्रिज्ञानान्नानुचितप्रवृत्तिः स्यात् । तथा चाधुना वैयावृत्त्यसंस्कारवशात्कश्चित्साधुः रात्रौ एव उत्थाय भिक्षाटनाय पात्रकादीन् गृहीत्वा निर्गच्छन् सङ्घाटकैर्निवारित इति श्रुतम् ।। ___ एवं भावानुपयागे सति कायिकादिपीडासद्भावेऽपि स पुनर्निद्रायात, ततश्च निद्रायामेव कायिकादिना उपधिरशुद्धा स्यादिति । भावोपयोगे तु सति पीडासद्भावज्ञानात् तन्निवारणानन्तरमेव पुनःनिद्राकरणान्न प्रकृतो दोषः । इत्थं चार्धनिद्रादशायां रात्रौ उत्थाने द्रव्याधुपयोग आवश्यक इति स्फुटं प्रतीयते । किञ्च जाग्रद्दशायां स्ववशतया स्वोचिता सकलाऽपि प्रवृत्तिः कर्तुं पार्यते, अनुचितसंस्कारश्च निरोद्धं शक्यते । अर्धनिद्रादिदशायान्तु निद्रापरवशतयाऽन्तः वर्तमानानां केषाञ्चिदपि संस्काराणां प्रादुर्भावात् सर्वथाऽनुचिताऽपि प्रवृत्तिर्दुर्निवारा भवेदिति तु दृष्टान्तबाहुल्यदर्शनतोऽप्यनुभवसिद्धमेवेति युक्तमुक्तं "कायिकार्थोत्थाने उपयोगः कर्त्तव्य" इति । प्रातरुत्थाने तु निद्रायाः संपूर्णत्वात् न निद्राव्याकुलितदशा भवेदिति शीघ्रमेव जाग्रद्दशाप्रापणान्न तथाविधोपयोगावश्यकता, तथाऽपि तदुपयोगकरणे तु दोषोऽपि न कश्चिद् दृश्यत इति । यदि च रात्रौ उपयोगकरणेऽपि निद्रा अभिभवेत, तर्हि तत्परिहारार्थं निःश्वासं निरुणद्धि । ननु 'उसासं न निरुज्झइ' इति आगमवचनात् उच्छ्वासादिनिरोधः निषिद्धः, ततश्च कथमेतद् युक्तमिति चेत् सत्यम, उच्छ्वासादिनिरोधस्य बलप्रयोगत्वेन निषिद्धत्वमेव, परन्तु स उत्सर्गमार्गः, अत्र तु प्रतिपादितदोषनिवारणार्थं निद्रापगमनायोच्छ्वासादि-निरोधोऽपि न्याय्य एव, अत एव रेचकपुरककुम्भकादिरुपसाधनाया उत्सर्गतो जिनमते निषिद्धाया अप्यपवादतो विहितत्वं पातञ्जलयोगसूत्रविवेचने प्रतिपादितं महोपाध्यायैरिति स्मर्तव्यमत्र । லலலலலலலலலலலலலலலலலலலலலலலலலலலல १०८ सिद्धान्त रहस्य बिन्दुः
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy