________________
ܗܡܗܡܗܡܗ
१७०७०७७
इत्थं च केचिन्मतं न रमणीयतां बिभर्ति ।
ननु तर्हि अस्वाध्याये पञ्चाङ्गीभणननिषेधसामाचारी शास्त्रविपरीता समापन्नेति चेत् अत्र बहुश्रुतानामयमभिप्रायः । शुद्धकालग्रहणं सूत्रपाठार्थमावश्यकं, न तु निर्युक्तिपाठार्थम् । अस्वाध्यायश्च सूत्रपाठस्य निर्युक्तिपाठस्योभयस्यापि प्रतिबन्धकः । प्रकृते च कालस्याशुद्धत्वात् सूत्रपाठो नैव कर्त्तव्यः । अथ च वसतिस्तावदप्रतिलेखितेति तत्र स्वाध्यायस्यास्वाध्यायस्य वैकस्यापि निश्चयो नास्त्येव, केवलं अस्वाध्याय - सम्भावनामात्रम्, ततश्च तदा यदि सम्भावनामाश्रित्य निर्युक्तीनामपि स्वाध्यायो निषिध्यते, तर्हि तत्र वेश्यास्त्रीजुगुप्सितादिदोषा अनिवारिता भवेयुः । ततश्चास्वाध्यायसम्भावनामात्रे निर्युक्त्यादिगुणनसकाशात् वेश्यास्त्र्यादिदोषानां गरीयस्त्वादेव तत्र नियुक्तिपाठा - नुमर्दितेति ।
तथा चायमत्र निष्कर्षः
७७७०७७७०७७०७०७
(१) कालस्याशुद्धत्वे सूत्रपाठो न कर्त्तव्यः, निर्युक्तिपाठस्तु कार्यः । (२) वसतौ अस्वाध्यायनिश्चये सूत्रपाठो निर्युक्तिपाठश्चोभौ अपि न कर्त्तव्यौ । (३) वसतौ अस्वाध्यायनिश्चयो नास्ति, केवलं वसत्यप्रतिलेखनादस्वाध्यायसम्भावनामात्रम् । तत्र वेश्यास्त्र्यादिदोषाणां गरीयस्त्वमपेक्ष्य तन्निवारणार्थमपवादतो निर्युक्तिगुणनमनुज्ञातमिति ।
इत्थं चास्वाध्याये पञ्चाङ्गीभणननिषेधः शास्त्रवचनानुसार्येवेति न कश्चिद् दोषः । अत्रास्वाध्यायः रुधिरादिरूपो बोध्यः । संयमोपघातिके धूमिकादिरूपेऽस्वाध्याये तु क्रियामात्रस्यैव निषेधान्निर्युक्तिगुणनस्यापि निषेधोऽर्थापत्याऽऽपन्न एव ।
यदि चैवमपि न मनः परितोषमुपयायात्, तर्हि " अस्वाध्याये सूत्रपाठस्यैव निषेधः, निर्युकत्यादिपाठस्त्वनुमत एवेति श्रुतव्यवहारः, संविग्नगीतार्थैस्तथाविधकारणवशात्पञ्चाङ्गीमात्रस्य पाठो निषिद्ध इति जीतव्यवहारः । जीतव्यवहारस्य चावश्यमादरणीयत्वात् अस्वाध्याये पञ्चाङ्गीमात्रस्य पाठो न करणीय इति निर्गलितः पन्थाः।
तथा "अह न सुज्झो कालो न पडिलेहिआ वा वसही" इति प्रकृतपाठरहस्यं केचिद् बहुश्रुता इत्थं वदन्ति → अत्र द्वौ विकल्पौ स्तः, कालोऽशुद्धः, अप्रतिलेखिता वसतिश्च । तत्र यदि प्रकाशे एव तत्र प्राप्ताः तर्हि कालभूम्यादिः वसतिश्च प्रतिलेखिता, कालोऽपि गृहीतः, परन्तु स अशुद्ध इति तत्र सूत्रपाठो न शक्यते कर्तुम्, अतस्तत्र नियुक्तीर्गुणयन्ति । अत्र वसतिप्रतिलेखनमस्ति, किन्तु कालः शुद्धो नास्तीत्येष प्रथमो विकल्पः ।
,
यदा तु कालभूमिर्दृष्टा, परन्तु समयाभावात् सम्पूर्णा वसतिर्न प्रतिलेखिता, तत्र यद्यपि
७०७७७०X
१०६
999999ܗ19
सिद्धान्त रहस्य बिन्दुः