SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல न वा वसतिः प्रतिलेखिता, तर्हि निर्युक्तीर्गुणयन्ति । ___ एष तावत्प्रकृतपाठभावार्थः । __ अत्र कश्चिदाह - वसतिप्रतिलेखनाऽभावे सूत्रपाठो नानुमतः, नियुक्तिपाठस्त्वनुमत इत्यनेन ज्ञायते यदुत रुधिरादिकोऽस्वाध्यायो मूलसूत्रपाठस्यैव निषेधकः, न तु नियुक्त्यादिपाठस्य । यदि हि रुधिरादिकेऽस्वाध्याये नियुक्त्यादिपाठस्यापि निषेधः स्यात्, तहि अप्रतिलेखितायां वसतौ नियुक्तिपाठोऽनुज्ञातो न स्यात्, मूलसूत्रपाठवत् । इत्थं चाधुनाऽस्वाध्याये यः सकलपञ्चाङ्गीपाठनिषेधः श्रूयते, स न शास्त्रीयः, पञ्चाङ्गीमध्ये मूलसूत्रपाठनिषेधस्यैव शास्त्रानुसारित्वादिति । ___ अत्र केचिद् वदन्ति → "न प्रतिलेखिता वा वसतिः" इत्यनेन तु एतद् ज्ञाप्यते यदुत यदि कालग्रहणयोग्या वसतिर्न प्रतिलेखिता भवेत्, तर्हि कालग्रहणस्यैवासम्भवात् सूत्रपाठो दुःशक (अकर्तव्य) इति तदानीं नियुक्तिगुणनं कार्यमिति । तथा च 'उपाश्रये रुधिरादिकोऽस्वाध्यायोऽस्ति न वा' इति तु तत्र निश्चितमेव, परन्तु कालग्रहणवसतौ अदृष्टायां सूत्रपाठासम्भवेन, सति अस्वाध्यायाऽभावे नियुक्तिगुणनमनुज्ञातम् । अस्वाध्याये तु तदपि न कर्त्तव्यमिति । कालग्रहणाभावे सूत्रपाठस्यैव निषेधः, अस्वाध्याये तु पञ्चाङ्गीमात्रस्येति न वर्तमानसामाचार्याः शास्त्रविपरीतत्वम् - इति । तन्न रमणीयम् । 'न पडिलेहिआ वा वसहि' इत्यत्र वसतिपदस्योपाश्रय-वाचकत्वात्, कालग्रहणस्थानार्थं तु 'कालभूमि'पदस्य प्रवर्तमानत्वात् । अयं भावः, केचित् “वसतिपदेन कालभूमिाह्या" इति वदन्ति, परन्तु तन्न सम्यक्, यतो वसतिपदं उपाश्रयस्यैव ज्ञापकं । ततश्च 'उपाश्रयो न प्रतिलेखितः' इत्येवार्थो भवेत् । उपाश्रयाप्रतिलेखनं नाम 'उपाश्रयोऽस्वाध्यायवान् न वा' इति निरीक्षणाभावः । ततश्चास्वाध्यायशङ्कायां सूत्रपाठनिषेधो नियुक्तिगुणनानुमतिश्च सिद्धेति अस्वाध्याये निर्युक्त्यादिपाठस्य शास्त्रीयत्वमेव सिद्धं स्यात् ।। किञ्च भवतु नाम वसतिरत्र कालभूमिः, तथाऽप्यत्र तदप्रतिलेखनं किंनिमित्तमिति वदतु भवान् । रात्रौ आगमनमत्राभूत्, ततश्च प्रकाशाभावनिमित्तकमत्र कालभूम्यप्रतिलेखनमिति चेत् तर्हि तन्निमित्तकमेवोपाश्रयाप्रतिलेखनमपि भवेदेव, न हि प्रकाशाभावे कालभूमिरिव उपाश्रयः सुप्रतिलेख्यः स्यात् । तथा चात्रोपाश्रयोऽप्यप्रतिलेखितः एव, ततश्चास्वाध्यायसम्भवेऽपि सूत्रपाठनिषेधो नियुक्तिगुणनानुज्ञा च स्पष्टमेव सिदध्येदिति । ைைஷஷஷஷஷஷஷஷஷைஷஷஷஷைலஜஷைஜை सिद्धान्त रहस्य बिन्दुः १०५
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy