SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல പതിപ്പിടിപ്പിടിപ്പിടിപ്പിച്ചിരിപ്പിച്ചിരിപ്പിച്ചിരിപ്പിച്ചു. (७२) जइ रत्तिं आगया ताहे कालं न गिण्हंति, निज्जुत्तीओ संगहणीओ य सणिअं गुणंति, मा वेसित्थिदुगुंछिआदओ दोसा होहिंति, कायिकां मत्तएसु छड्डेति, उच्चारंपि जयणाए । जइ पुण कालभूमी पडिलेहिआ, ताहे कालं गिगति, यदि सुद्धो कालो, करेंति सज्झायं, अह न सुद्धो न पडिलेहिआ वा वसही ताहे निज्जुत्तीओ गुणिति । (ओ.नि. २०४) Forseys keos ko deys of key saeys koskosh bosdes boys bosdoskoshodhary of bodo shipofol चन्द्र. यदि हि कथमपि रात्रौ एव वसतिमागताः साधवः, ततश्च प्रकाशाभावात् कालभूमिरुच्चारभूमिः प्रश्रवणभूमिश्च प्रतिलेखयितुमशक्या भवेत् तर्हि तत्र कालं न गृह्णन्ति । कालग्रहणाभावे च सूत्रपाठासम्भवात् रात्रौ निर्युक्तीः संग्रहणीश्च गुणयन्ति साधवः, न च निःस्वाध्यायास्तिष्ठन्ति, मा भूत् वेश्यास्त्रीप्रभृतिजन्या दोषा इति । प्रश्रवणमपि मात्रके कृत्वा यतनया परिष्ठापयन्ति, उच्चारमपि तथैव ।। ननु प्रश्रवणभूमौ प्रश्रवणव्युत्सृजने मात्रकेण च परिष्ठापने को भेदः, येन अदृष्टायां प्रश्रवणभूमौ प्रश्रवणव्युत्सृजनं निषिध्यते, मात्रकेण च परिष्ठापनं अनुज्ञाप्यते इति चेत् ____ अदृष्टायां प्रश्रवणभूमौ कदाचिद्विषधरबिलानि भवेयुः, प्रश्रवणव्युत्सृजने तु कालविलम्बसम्भवात् विषधरो बिलान्निर्गत्य दशेत् । मात्रकेण परिष्ठापने तु शीघ्रमेव कार्यसमाप्तेर्न विषधरदशनादयो दोषाः ।। ___तथा प्रश्रवणव्युत्सृजने त्वेकस्मिन्नेव स्थाने प्रायः सकलमपि प्रश्रवणं निपतेत्, तत्र च यदि कीटिकादिगृहाणि स्युः, तर्हि तत्र गतं प्रश्रवणं प्रभूतत्वात् कीटिकादीनि विराधयेत् । मात्रकेण परिष्ठापने तु अनेकेषु स्थानेषु स्वल्पं स्वल्पं परिष्ठापनात् न भवति तथाविधा महती विराधनेत्येवमादीनि कारणान्यपेक्ष्यादृष्टायां प्रश्रवणभूमौ व्युत्सृजनं निषिद्धं, परिष्ठापनमनुज्ञातमिति कल्प्यते । ___अत्र मात्रकं विना साक्षादेव प्रश्रवणकरणं व्युत्सृजनम्, मात्रके प्रश्रवणं कृत्वा भूमौ पातनं परिष्ठापनमिति शास्त्रीयेयं रूढिः । ___ यदि च दिवसे एव तत्रागताः, ततश्च कालभूमिः प्रतिलेखिता, तर्हि कालं गृह्णन्ति, यदि कालः शुद्धः, तहि स्वाध्यायं कुर्वन्ति, मूलसूत्राणि पठन्तीति यावत् । अथ कालो न शुद्धः, லலலலலலலலலலலலலலலலலலலலலலலலலலலல सिद्धान्त रहस्य बिन्दुः १०४
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy