SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல गृहस्थपरिचयादिकमागमे असंयमप्रयोजकत्वान्निषिद्धं दृश्यते । साधूनां अनारम्भिणां लोकाधीनत्वात् संयमोत्सर्पणानुकूलस्तु गृहस्थपरिचयो न निवार्यत इति तु सताटस्थ्यं चिन्त्यम् । ooooooooooooooooooooooooooooppoproppopotoporaipotopompoupooooooooo (७१) संस्तारकभूमित्रयमाचार्याणां निरूप्यते, एका निवाता संस्तारकभूमिरन्या प्रवाता अन्या निवातप्रवाता । (ओ.नि. २०३) arootyschoitostostostostostostospolystoriosandiyokootosensootion चन्द्र. सकलगच्छाधाराणामाचार्याणां चित्तस्वस्थताद्यर्थमेष अतिशयकल्प आचारः यदुत तेषामर्थं संस्तारकभूमित्रयं निरुप्यते । तत्र निवाता = वातरहिता श्लेष्मादिदोषरक्षणार्थमेषा, प्रवाता = प्रभूतवातयुता, धर्मादिदोषपरिहारार्थमेषा, निवातप्रवाता = मध्यमवाता । आचार्याश्च यथानुकूल्यमन्यतरस्यामपि संस्तारकभूमौ तिष्ठन्ति । ननु प्रवातभूमौ वायुकायविराधना भवति, प्रवातानुमत्या तज्जन्यविराधना-नुमतिरपि संयमातिचाररूपा उपढौकत इति चेत् न, आपवादिकत्वेन द्रव्यविराधना-सत्त्वेऽपि न भावविराधना, द्रव्यविराधना च भावविरहितत्वे ना-किञ्चित्करीति न तेन संयमोपघातादिदोषः । तथा विराधनानुमतिरपि नास्ति, आपवादिकत्वादेव । अन्यथा कारणिकाधाकर्मादावपि तदनिवार्यत्वप्रसङ्गादिति । . किञ्च यथा हि साधवो न स्वयं पचन्ति, पाचयन्ति, पचनमनुमोदयन्ति वा, परन्तु बुभुक्षादिनिवारणार्थं गृहस्थैः स्वयं पक्वं तु गृह्णन्त्येव, न तत्र तेषां कश्चिद् दोषः । एवमत्रापि आचार्याः न प्रवातं स्वयं परैर्वा उत्पादयन्ति, न वा अनुमन्यन्ते । परं स्वयमेव प्रवृत्तं प्रवातं स्वास्थ्याधानार्थं सेवन्ते । न तत्र तेषां कश्चिद् दोष इति । ___ बुभुक्षानिवारणमपि यदि मोक्षार्थम्, तदा निर्दोषम्, अन्यथा तु गृहस्थैरपि तत्क्रियत इति को विशेषः गृहस्थसाध्वोर्मध्ये । एवं प्रवातसेवनमप्याचायााँ मोक्षार्थमेव, अन्यथा तु सुखशीलतापोषणार्थमेव क्रियमाणं तत् गृहस्थसादृश्यापादकमिति । 00000000000000000000000000000000000000000000000000000000 सिद्धान्त रहस्य बिन्दुः १०३
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy