________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல
क्षेत्रानाभवनलक्षणाद् एकाकिनोऽसमाप्तकल्पा वा मा भूवन्निति ।" (१७८४) अत्र हि साधू नाम काकित्वादिनिवारणार्थ क्षेत्रानाभवनं यथा आदृतम्, तथैव साधूनामेकाकित्वादिनिवारणार्थं उपहतोपधिपरिष्ठापनादिका व्यवस्था समादृतेति कल्प्यते न किं?
एतत्तावत् उपध्युपहननरहस्यं उपहतोपधिपरिष्ठापनरहस्यं चास्माभिरुत्प्रेक्षितम् । तादृशस्पष्टाक्षरानुपलम्भाच्च एतत्सत्यम् न वा इत्येतत्तु बहुश्रुतगीतार्था यद् वदन्ति, तदेव प्रमाणम् । नास्माकं कोऽपि कदाग्रहः, केवलं सूक्ष्मप्रज्ञया चिन्तनीयमेतद् रहस्यमिति प्रार्थयामो वयं शिष्टान् ।
repropsopropopropropropodacopeopodprocodpropsogspopropsip
(७०) तत्र भोजनस्थाने सागारिका यदि बहवस्तिष्ठन्ति, ततस्ते साधवो भिक्षामटित्वाऽऽगताः सन्तो यद्यैवं भणन्ति-यदुत वच्चह-हे सागारिकाः ! गच्छतास्मात्स्थानात्, ततश्चैवमुच्यमाने
संयम-विराधनादोषो भवति । (ओ.नि. १८९) இரத்தம் இரு தரம் தரம் தரம் இருந்தால் தாம் மேgே Co மேல் இரக் காதோரம் இரும் மேல் மோதிரம்
चन्द्र. ननु सागारिकाणां "गच्छतास्मात्स्थानात्" इति कथनमात्रेण संयमविराधनादोषः कथं भवेदिति चेत् तत्कि दशवैकालिकसप्तमाध्ययनं नाधीतं भवता ? असंयतं प्रति गमनस्थानोपवेशनादिक्रियाप्रयोजकवचनानुच्चारणं तत्र निगदितं किं न जानासि ?
जानामि, किन्तु तत्कारणं तु न जानामीति चेत् तत्कि सागारिकाणां तप्तायोगोलौपम्यं योगशास्त्रादिषु दृष्टं विस्मृतं ? असंयता हि तेऽयतनयैव गमनादीनि कुर्वन्ति, ततश्च तत्र षट्कायविराधनासम्भवः, ततश्च तान्प्रति गमनादिक्रियाप्रयोजकवचनोच्चारणमसंयमप्रयोजकत्वान्न कर्त्तव्यमेवेति ।
अत एव "गिहिणो वेयावडियं न कुज्जा, गिहिजोगं परिवज्जए जे स भिक्खु, थोवो वि गिहिपसंगो जइणो सुद्धस्स पंकमावहइ..." इत्यादिभिर्ग्रन्थैः லலலலலலலலலலலலலலலலலலலலலலலலலலலல
सिद्धान्त रहस्य बिन्दुः
१०२