SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல तथाहि अरक्षिते उपधौ स्तेनादयः आरक्षकादिभयादितस्ततः पर्यटन्तः अपहृतं धनं स्वरक्षार्थं उपधौ गृहयित्वा नश्यन्ति, तच्च धनं गवेष्यमाणं साधूपधौ लब्ध्वाऽऽरक्षकादयः साधुं स्तेनं मत्वा कारागृहादौ निक्षिपन्ति, एवं च महती शासनापभ्राजना । तथा प्रत्यनीकाः शासनापभ्राजनार्थमेव राजसत्कममूल्यं वस्तु चोरयित्वाऽरक्षिते साधूपधौ गृहयित्वा स्वयमेव राजानं निवेद्य कपटपूर्वकं साधुं स्तेनं स्थापयित्वा शासनमपभ्राजयन्ति । इत्थं च राजकृता मरणादयो दण्डा अपि नासुलभाः । तथा संसारदुःखत्रस्तो कश्चिन्मरितुकामोऽरक्षितं साधूपधि गृहीत्वा तेन स्वात्मानमुपहन्ति, यदि वा तेनैवोपधिना स्वप्रत्यनीकानुपहन्तीत्येवं अरक्षितोपधिरधिकरणं भवेत्, तत्रापि साधूपरि अभ्याख्यानसम्भवे आत्मविराधना शासनापभ्राजना च दुर्वारा ।। यदि तु सकलमपि कालं कोऽपि साधुः सकलमपि उपधि जाग्रन् रक्षति, तदा रक्षकसद्भावात् न प्रतिपादितदोषावकाशः । गच्छे तु रात्रावपि पाठोक्तरीत्याऽन्यतरस्यापि जागरणावश्यम्भावात् उपधिरक्षा सुकरेति न कोऽपि प्रतिपादितदोषावकाश इति । ___ इत्थं च यदा रक्षकाभावात् उपधिः आत्मसंयमप्रवचनविराधनासम्भावनादोषदुष्टो भवति, तदा स उपधिरुपहतो मन्यते । इदमेवोपधुपहननं । तत्र च आत्मविराधनादयो दोषा भवन्तु मा वा, तथाऽपि दोषसम्भावनाप्रादुर्भावादेवोपध्युपहननं परिगण्यते । ननु तथाऽपि तत्परिष्ठापनं किमर्थं ? दुर्लभनिर्दोषोपधिकाले तु तत्परिष्ठापनं सुतरां युक्तिविरहितमिति चेत् न, उपधिरक्षाऽप्रमादप्रयोजकत्वादुपहतोपधिपरिष्ठापनस्य युक्तियुक्तत्वानपायात्, तादृक्काले तु सुतरां तथात्वात् । ___अयं भावः, एकं तावद् निर्दोषोपधिर्दुर्लभः, ततश्च तद्रक्षणं यत्नेन करणीयम्, तदभावे उपध्यपहरणे सति संयमविराधनादिदोषसद्भावात् । अपरं चोपध्यरक्षणे प्रतिपादितप्रभूतदोषा-वकाशादपि उपधिः महता यत्नेन रक्षणीयः, ततश्च 'उपधिरक्षणे साधवः सावधाना भवन्तु, अप्रमत्ता भवन्तु' इत्येतदर्थमियं व्यवस्था कृता, येन ते उपधिरक्षणाऽप्रमत्ता भवेयुः । एवं च "यद्यहं उपधिं न सम्यक्रक्षामः, तर्हि आत्मविराधनादिदोषसम्भावनादुष्टोऽयमुपधिरुपहतः परिष्ठापनार्हश्च भविष्यति, ततश्च तत्परिष्ठापनानन्तरं नूतन उपधिर्गवेषणीयोऽस्माभिरेव, स च दुर्लभः ततश्च महानायासः पलिमन्थश्च भविष्यति अस्माकं, इति महताऽऽदरेणोपधि संरक्षामो वयं" इति परिणामान्विताः साधवः सम्यगुपधिरक्षणप्रवणा भवन्ति । किञ्च व्यवहारभाष्यवृत्तौ इत्थं निगदितमस्ति "इत्यपि खलु कारणात् ஒஷைஷஓஓஷைஓைஓஓஒஒஒஒஒஒஒஒஒ ஷைலை सिद्धान्त रहस्य बिन्दुः १०१
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy