SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ नवयमुपदेशः के प्रति फलवान् के प्रति वा नेत्याशक्याहएसुवएसो फलवं गुणठाणारंभतिव्वयाजोगे । न ठिएसु जहा दंडो चकम्मि सयं भमंतंमि ७०। ____अयमभिग्रहधरणादिप्रकारेण सम्यगाज्ञायोगप्रवृत्तिविषय उपदेशः, फलवान्-श्रोत्रपेक्षया फलोपहितः, गुणस्थानकानां सम्यग्दृष्टयादिरूपाणामारम्भस्य-प्रथमप्रवृत्तिरूपस्य तीव्रतायाश्च तयाविधक्लिष्टकर्मोदयाद् प्रारब्धपातानां सोपक्रमकर्मणामुपरितनाध्यवसायस्थानारोहरूपाया योगे जनने,न नैव, स्थितेषु-सर्वात्मना समधिष्ठितगुणस्थानकेषु, तत्र स्वव्यापारासिद्धः, उपदेशस्य च स्वजन्यद्रव्याहाक्रियापूर्वकगुणस्थानारम्भस्थैर्यान्यतरव्यापारसम्बन्धेनैव सम्यग्दर्शनादिहेतुत्वात् । अत्र दृष्टान्तमाह-यथा दण्डः स्वयं भ्राम्यति चक्रे । स हि घटजनने प्राथमिकचक्रभ्रमिद्वारा मन्दीभूतायां तस्यामुत्कटतदाधानद्वारैव सफलः स्यात् नत्वन्यथा, तदाह सहकारिकारणं खलु एसो दंडोव्व चकभमणस्स । तम्मि तह संपयट्टे णिरत्थगो सो जह तहेसो३॥" तथा, "गुणठाणगपरिणामे संते उवएसमंतरेणावि । णो तव्वाघायपरो नियमेणं होइ जीवोत्ति ॥" ... ३ सहकारिकारणं खलु एष दण्ड इव चक्रभ्रमणस्य । तमिंस्तथा संप्रवृत्ते निरर्थकः स तथा एषः॥ ४ गुणस्थानकपरिणामे सत्युपदेशमन्तरेणापि । नो तयाघातपरः नियमेन भवति जीव इति ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy