________________
.
८२
"कम्म जोगणिमित्तं बज्झइ बंधहिई कसायवसा। सुहजोगम्मि अकसायभावओ वेइतं खिप्पं २॥"
द्वयोर्भावयोस्तुल्यत्वेनैकेनापरकार्यविनाशः स्यादित्यत आहस पुनः अभिग्रहादिशुभयोगः, अत्र प्रकृतकर्मनाशे, गुरुको बलीयान् , आज्ञासहकारिकत्वेन स्वसहायीभूताज्ञायुक्तत्वेन वनिरिवाभिमुखतृणवनदोहेऽनुकूलपवनसहकृतत्वेनेति ध्येयम् । वस्तुतः कर्मजनितपरिणामरूपो दोषः स्वभावत एव दुर्बलः, स्वपरिणामरूपो जीवस्य शुभयोगस्तु स्वभावत एव बलीयान् , अल्पस्त्वयं कर्मोदयबहुलत्वान्न स्वाभाविक एव, अत एवात्र नाशकत्वं आज्ञायोगसहकृतत्वं च तदव्यभिचरितत्वलक्षणमिति नानुपपत्तिरिति द्रष्टव्यम् ॥७६॥ - कीदृशमिदं स्वरूपमुपलभेतेत्याहइय पासइ सज्जक्खो सम्मदिछी उ जोगबुद्धीए । अंधो णेव कुदिट्ठी अभिन्नगंठी य जचंधो ॥७७॥ ___ इति पूर्वोक्तमाज्ञासहकृतशुभयोगस्य गुरुकत्वं पश्यति सजाक्षो-भावतो निरुपहतलोचनः, सम्यग्दृष्टिस्तु सम्यग्दृष्टिरेव, योगबुद्धया धर्मवासनापरिष्कृतमत्या, न पुनरन्धः पश्चाभष्टदृष्टिजनतुल्यः, कुदृष्टिः-सम्यक्त्वभ्रंशानन्तरं मिथ्यात्वमुपगतः, न च जात्यन्धो-जन्मप्रभृत्येव नयनव्यापारविकलजनतुल्यः-अभिन्नग्रन्थिः कदाचनाप्यव्यावृत्तमिथ्यात्वतिमिरपटलो जीवः । इदं तु ध्येयं-सम्यग्दृष्टिराज्ञामुत्सर्गापवादादिभेदेन सम्यग्जानानोऽपि श्रेणिकादेखि प्रतिबन्धसंभवाद्जनया प्रतिपद्यत इति ॥७७॥
२ कर्म योगनिमित्त बध्यते पापस्थिती कषायवशात् ।
शुभयोगेऽकषायभावतो वेदितं लिप्तम् ॥