________________
विशेषात् कनकमिति व्यपदिश्यते, एवं बाह्यमुखमपि विशिष्टान्तरमुखसंवेधादेव विशिष्येत । न चैवं मिथ्यादृष्टावस्तीति कथं तत्सुखं विशिष्यताम् , युक्तं चैतत्, इत्यमेव तद्धेतुपुण्यप्रकृतिभेदोपपत्त। तदेवमकालप्रयोगाद्भवदपि मिथ्याशां अवेयकादिसुखं न तत्त्वतः मुखमित्युपपत्रम् ॥७२॥ . अथोपसंहरबाहणाऊण इमं सम्मं आणाजोगे पवट्टए मइमं । तिव्वाभिग्गहधारी रखतो ते सुपरिसुद्धे ॥७३॥
मात्वा इदमविध्यकालाभ्यां प्रयोगे महादोष; आज्ञायोगे सम्यग् विधिना काले च प्रवर्त्तते प्रतिक्षणमप्रमादलक्षणेन प्रकर्षण वर्तते, मतिमान् धर्मानुप्रेक्षी, अप्रमादार्थमेव तीवकोपवेदोदयादिकमात्मदोषं विज्ञाय क्षेत्रकालाद्यौचित्येन तभिग्रहसमर्थवीर्ययोगे तीवाभिग्रहवारी क्षमाशरीराप्रतिकर्मत्वाधुत्कटाभिग्रहणशीलः। न क्षम हि मुमुक्षणां क्षणमपि निरभिग्रहाणामवस्थातुं, न चाभिग्रहा ग्रहणमात्रत एव फलदायिनो भवन्ति, किन्तु परिपालमयेत्यत आह-रक्षयन् तान् गृहीताभिग्रहान्, सुपरिशुद्धान् सर्वातिचारपरिहारेगातिनिर्मलान् ॥७३॥ - बन्वभिग्रहपालनेऽपि घाबविषयासिद्धौ कथं फलप्राप्तिः स्यादित्यत आहविसयम्मि अपत्ते विहु णियसत्तिष्फोरणेण फलसिद्धी। सेटिदुगस्साहरणं भावेयव्वं इहं सम्मं ॥४॥
विषये इष्टार्थे, अप्रासेऽपि हि प्रतिबन्धहेतोरनुपतनेऽपि हि, निजशक्तिस्फोरणाव निजपराक्रमस्य नैरन्तर्येण प्रवर्तनाव, फल