________________
.. अथ दुष्टावधारणत्वात्तजमानस्य विपरीतत्वेऽपि तत्सुखस्यातयात्वात् कयं विपरीतत्वमिति चेत्, न, सुवर्णपटापेक्षया मुन्मयघट इव कूटदलपरिणामत्वरूपस्यैव वैपरीत्यस्वे संभवात् ॥६॥
उक्तार्थपरिज्ञानार्थमेव सम्यग्दृष्टिमुखस्वरूपं निरूपयतिसाभावि खलु सुहं आयसभावस्स दंसणेऽपुव्वं । अणहीणमपडिवक्खं सम्मदिहिस्स पसमवओ ॥६९॥
खाभाविकं अविकृताभ्यन्तरपरिणतिप्रादुर्भूतम् , खलु-निश्चये मुखं, आस्मखमावस्य दर्शने निखिलपरद्रव्यव्यावृत्तस्वत्वरूपस्य विगलितवेद्यान्तरानुभवे, अपूर्व प्रागप्राप्तजातीयं, सदा शैवलपटलाछबदजलचारिणो मीनस्य कदाचित्तद्विलये राकाशशांकदर्शनजनितमुखतुल्यम् । तद्धि तन्मात्रप्रतिबन्धविश्रान्तचित्ततयाऽत्युत्कटपरिणतिकत्वेनेतरमुखातिशायि, तथा अनधीन-अपरायत्तं निरन्तरस्वपरिणतिधारापतितखादित्यमपीतरकारणस्पृहोत्सुक्याभावादितरमुखातिशायिसमव्याहतम् । तथा अप्रतिपक्ष दुःखोपनिपातेऽपि स्वभावभावनाबलेनान्तरव्याहतत्वात् इत्यमप्यन्यातिशायित्वं स्पष्टमेव । कस्येत्याह-सम्यग्दृष्टः प्रशमवतोऽनन्तानुवन्धिविलयप्रादुर्भूतप्रशमगुणमाजः ॥६९॥
स्वाभाविकमुखस्य बाबकारणानपेक्षायां दृष्टान्तमाहतिमिरहरा जइ दिट्ठी जणस्स दीवेण पत्थि कायव्वं । तह सोपखं सयमाया विसया किं तत्थ कुव्वंति॥७०॥
तिमिरहरा खत एवान्धकारनिकुरंबप्रसरेऽप्यलुसशक्तिका यदि दृष्टिर्जनस्य, तदा दीपेन नास्ति कर्तव्य प्रयोजनं, तिमिरनाश