________________
लक्षणो दोषः, इदं त्वापातमात्रसुखं न फलं, किन्त्वानुषङ्गिकं, कृषेरिव पलालमिति भावः ॥ ६६ ॥
वस्तुतो नेदं सुखमपीति द्रढयतिणय संपि अंतरंग अविद्धतंबे सुवण्णवण्णोव्व । विसवारिअस्स जह वा घणचन्दणकामिणीसंगो ॥ ६७॥
न च तदपि दुरभव्यादीनामाझयोगजनितं ग्रैवेयकादिसुखमपि, अंतरंग अभ्यंतरपरिणामप्राप्तम्, अंतर्दारुणमिथ्यात्वकालानलज्वलितचित्ततया बहिरेव तेषामौषधपरतन्त्रस्येव भोगात् सुखस्योत्पत्तेः; तत्र दृष्टान्तमाह-अविद्धे सिद्धपारदादिनाऽकृतमध्यवेधे, ताम्रे केनचिदौषधयोगादिना बहिर्जनितः सुवर्णवर्ण इव सुवर्णसदृशवर्ण इव, तदीयजीवद्रव्यताम्रस्य शुद्धाज्ञानैरन्तर्यादरसिद्धपारदेनाविद्धमध्यत्वादाज्ञाभ्यासमात्रेण च बहिरेव वेधाद्बहिरव - च्छेदेनैव सुखोत्पत्तेरन्तरवच्छेदेन तदयोगात्, बहिरिन्द्रियसुखपरिणत्यांतस्तृष्णाया एवाधानात् । दृष्टान्तान्तरमाह-यथा वा विषवारितस्य हलाहलव्याप्तस्य, घनं बहुलं चंदनं, कामिनी च युवती, तयोः संगः सर्वागीणसम्बन्धः, कार्ये कारणोपचारात् तज्जन्यसुखमित्यर्थः । यथाहि तस्य तदव्यक्तीभूतं व्यक्तविषवेदनाभिभूतत्वात्तत्त्वतोऽसुखमेव, तथा हि मिथ्यादृष्टेर्मिथ्यात्वविषजनिततृष्णावेदनाभिभूतत्वाच्चक्रवर्त्यादिपदवीप्राप्तावपि तत्त्वतोऽसुख
मेवेत्यर्थः ॥६७॥ दृष्टान्तान्तरमाह
जह वा दहस्स सारयरविकिरणकयं जलस्स उपहत्तं । अंघो जहा ण पासई तह न कुदिट्ठी सुहं लहइ ॥ ६८ ॥
यथा वा इदस्य शारदरविकिरणकृतं शरत्कालीनकठोर