________________
लभ्यन्ते, तथापि चैत्यवंदनपश्चाशकवृत्तौ अभयदेवसूरिभिर्भानंदनाधिकारितायामपुनर्वेधकवदेतावनधिकृतौ सकृदबंधकादिवत् पृथक्कृतौ चेत्यस्माभिरपि व्यावर्त्तमानावेतौ विवक्षाविषयीकृत्य “गठिमया" इत्यादिनाऽप्रधानायुक्ताविति यथाशास्त्र परिभावनीयं सुधीभिः ||६४ ||
अयं च व्यवहारतः काल उक्तोऽथ निश्चयतस्तमाह-णिच्छयओ पुण कालो ओ एअस्स गठिभेअम्मि । पोग्गलपरिअट्टद्धं जमूणमेयम्मि संसारो ॥६५॥
निश्वयतो निश्चयनयमतेन, पुनः एतस्य आज्ञायोगस्य, कालो ग्रन्थिभेदे, अपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिभेदसमय एव, कथमित्याह, यत् यस्मात् तस्मिन् ग्रन्थिभेदे ऊनं देशोनं पुद्गल परावर्त्तार्द्ध संसारः, उत्कृष्टोऽप्येतावानेव नाधिक इत्यर्थः, तथा चात्राज्ञौषधविधानं कर्मरोगस्यादीर्घस्थितिकत्वप्रभावेन विधिना सदानुपाल्यमानं गुणाय भवति, अन्यथापि सदभ्यासहेतुतया तथैव प्रतिबन्धस्यापि तस्वतः फलकालोपनायकत्वात्, तथा च पठ्यते—
" लब्ध्वा मुहूर्त्तमपि ये परिवर्जयन्ति । सम्यक्त्वरत्नमनवद्यफलप्रदायि ॥
यास्यन्ति तेऽपि न चिरं भववारिराशौ ।
तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् || १ || ” इति । अपुनर्बन्धकादीनां चानाभोग बहुलत्वेन सूक्ष्मबोधानाधायकत्वाम तथेति पर्यवस्थितम् ॥ ६५ ॥
परः प्रश्नयति