SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ नं तद्व्याध्युपशमं प्रत्यकिञ्चित्करत्वान्निः फलं समधिकबाधाविधायितया विपरीतफलं वा भवति, कालप्रयोगे चानीदृशत्वात् सफलमेव, तथा संसाररोगग्रस्तेष्वप्याज्ञाप्रदानमकाले निष्फलं विपरीतफलं वा, काले तु फलवदेवेति । तत्र को नामाऽकाल; कश्च काल इत्याह--नं महामेघावलुप्तसकलनक्षत्रादिप्रभाप्रसरभाद्रपदाद्यमावास्यामध्यभागसमुद्भूतान्धकारवनिविडं मिध्यात्वं तत्वविपर्यासलक्षणमुपचारात्तत्कालश्वरमपुद्गलपरावर्त्तव्यतिरिक्त शेषपुद्गलपरावर्त्तलक्षण । अकालो भगवदाज्ञौषधप्रयोगे, चरमपुद्रलपरावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानादिषु स्यादपि काल:, अत एव दीक्षाविधानपञ्चाशके यथाप्रवृत्तकरणेनापचितदीर्घकर्म स्थितिकतया विशुद्धयमानस्यैव दीक्षाधिकारित्वमुक्तम् " चरमंमि चैव भणिया एसा खलु पोग्गलाण परिअट्टे । सुद्धसहावस्स तहा विमुज्झमाणस्स जीवस्स९५ " ॥ अत एवाह - कालस्त्व पुनर्बन्धकादिकः अपुनर्वन्धकादिकाललक्षणः, तत्रापुनर्वन्धकः "पावं न तिव्वभावा कुणइ ९६" ।। इत्यादिलक्षण; आदिशब्दात् मार्गाभिमुख मार्गपतितौ गृह्येते तत्र मार्गचेतसोऽवक्रगमनं भुजंगमनलिकायानतुल्यः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्धाभिमुखस्तत्र पतितः प्रविष्टो भव्यविशेषो मार्गपतित इत्युच्यते, तदादिभावापद्मश्च मार्गाभिमुख इति । एतौ च चरमयथाप्रवृत्तकरणभागभाजावेव । यद्यप्यत्र त्रयोऽप्येकरूपा एव ९५ चरमे चैव भणिता गया खलु पुद्गलानां परावर्ते । शुद्धस्वभावस्य तथा विशुद्धमानस्य जीवस्य ॥ ९६ पापं न तिम्रभावात् करोति ॥
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy