________________
___ "तचित्ते तम्मण्णे तल्लेस्से ९३" इत्यादिनाऽप्युपयुक्तस्यैव भावावश्यकाभिधानादनुपयुक्तस्य चास्खलितादिगुणोपेतसूत्रोचारणेऽपि द्रव्यावश्यकाप्रच्यवात् । यदि चाद्योऽप्यशुभानुबन्धो न व्यवच्छिन्नस्तदाज्ञायत्नोऽपि न लब्ध एवेत्यनुमीयते, न हि कारणं स्वकार्यमनुत्पादयत् स्वरूपमेव लभते, निश्चयतस्तस्य कुर्वद्रूपत्वात् । नन्वेवं प्राचीनाज्ञापालनस्य निष्फलत्वमापद्यतेत्यत आहतत्प्रबलत्वेऽपि अशुभानुबन्धस्य निकाचितत्वेनोपक्रमणायोग्यत्वेऽप्यागन्तुकप्रमादयोगेनातिवृद्धत्वेऽपि वा आज्ञायत्नोऽभ्यासहेतुः औषधयत्न इव कुतोऽपि प्रमादात् क्रियोपचारे जातेऽनुभूते च तत्फले वेदनासहनलक्षणे पुनस्तत्प्राप्तिहेतुरिति, युक्त आश्रयणीयः, तदिदमुक्तम्
"खाओवसमिगलामे दढजत्तकयं सुहं अणुहाणं ।
परिवडिअं पि य हुज्जा पुणो वि तब्भाववुड्ढिकरं" ॥९४ ___ अन स्वोत्तरसजातीयाज्ञायोगे आज्ञायोगो हेतुः प्रतिबन्धकाभावश्च सहकारीत्यादि विवेचितमन्यत्र ॥६३॥
औषधतुल्यत्वादेवाज्ञायोगस्य कालाकालौ विभावनीयावित्याहएत्तो अ एत्थ णेयं कालाकालेहि सहलविहलत्तं । घणमिच्छत्तमकालो कालोऽपुणबंधगाईओ॥६४॥
इतश्चौषधतुल्यत्वात्, अत्राज्ञायत्ने, कालाकालाभ्यां सफलविफलत्वं ज्ञेयम् । यथा बकालप्रयोगेऽभिनवज्वरादावौषधप्रदा
९३ तचित्तस्तम्मनास्तल्लेश्यः ॥ ९४ क्षायोपशमिकलामे दृढयत्नकृतं शुभमनुष्ठानम् ।
परिणतितमपि च भवेत् पुनरपि तद्भावद्धिकरम् ॥