________________
छेदोऽवस्थितप्रकृतिष्वनुबन्धजननशक्तिविघटनम्, विपर्याससाहित्याभावेन तथाविधशत्युपेताग्रिमकर्माजननं वा ततः, किं तत इत्यत आह-सोऽनुबन्धः, खलु निश्चये मूलं क्लेशानां, विपर्यासजलासिच्यमानानुबन्धमूला एव हि क्लेशपादपा दुःखलक्षणाय फलाय कल्प्यन्ते, सम्यग्ज्ञानदहनदयमानमूलास्तु त्रुटितसकलसफलदानशक्तयो वन्ध्यभावापत्त्या असत्कल्पा एव जायन्त इति, एवं चानुबन्धच्छेदे लेशव्यवच्छेदात् सिद्धमविकलमोक्षफलत्वमेतज्ञानस्येति ॥६१॥ .. __ अनुबन्धस्यैव क्लेशमूलत्वात्तद्वर्जनमुपदिशतिवज्जेयब्बो एसो अण्णह धम्मो वि सबलओ होइ । एयस्स पभावेणं अणंतसंसारिआ बहवे ॥२॥
वयितव्य एषः अशुभप्रकृत्यनुबन्धः स्वकारणीभूतासत्प्रवृत्तिनिन्दागर्हादिना साधुश्रावकसमाचारसमन्वितैः, अन्यथा, अशुभानुबन्धवर्जनाभावे, धोऽपि शबलकः अतिचारपंकमालिन्यकल्मषरूपतामापनः भवति, महति दोषानुबन्धे हि मूलगुणादिभंगरूपे विधीयमाने धर्मः स्वरूपमेव न लभतेऽल्पातिचारानुबन्धे च भवपि धर्मः शबलस्वरूप एव संभवतीति तात्पर्यम्। अधर्मस्तावत्तत्त्वतो भवत्येवेत्यपिशब्दार्थः। तथा एतस्य अशुमानुबन्धस्य, प्रभावेण अप्रतिहतशक्तिकत्वेन, बहवोऽनन्तसंसारिणः प्राप्तदर्शनाचतुर्दशपूर्वधरादयोऽपि इति दृश्यम्, श्रूयते हि प्राप्तदर्शनादीनामपि प्रतिपतितानां पुनस्तद्गुणलामव्यवधानेऽनन्तः कालः समये ।