________________
ફ્રૂટ
"
" पडिवयम्मि विस्रुद्धादिभावओ सम्म तु८९" । ननु प्रतिपच्चन्द्रस्तावदावरणैर्विमुध्यमानः सर्वथाऽनावृततया पूर्णीभवन् योग्यतया प्रागपि तथेति वक्तुं युज्यते, प्रकृते तु नैवम्, श्रुतज्ञानस्यैव प्रवर्द्धमानस्य केवलज्ञानपरिणामात्मकपूर्णतानुपपत्तेः, "नठ्ठम्मि अ छाउमत्थिए नाणे९०" इति वचनादिति चेत् । स्यादेवम्, यदि सर्वथा छाद्मस्थिकज्ञानानां नाशं ब्रूमः, न चैवमस्ति, किन्तु विकलप्रकाशपरिणामेन नष्टा ध्रुवा चेतनैव केवलज्ञानतया परिणमते, इत्थमेव त्रैलक्षण्योपपत्तेरिति विभावनीयम् । इदमिह फलितं, दूरभव्यादीनां द्रव्यसूत्रयोगाद् द्रव्यंतः सन्तोऽपि भावतोऽसन्तः, माषतुषादीनां च ते द्रव्यतोऽसन्तोऽपि भावतः सन्तः, अविरतादीनां चोभयतोऽपि सन्तः, तदूबाबानां चोभयतोऽप्यसन्त इति ॥६०॥
एतस्य पूर्णतामेव हेतुना भावयतिजमिण होइ फलंगं दव्वेण असप्पवित्तिजुत्तं वि । अणुबंधच्छेयाओ सो खलु मूलं किलेसाणं ॥ ६१ ॥
यद् यस्मात् इदं प्रतिबन्धकालीनमपि श्रद्धादिसमन्वितभिन्नग्रन्थिकज्ञानम्, द्रव्येण मनोरुचिविकलत्वलक्षणेनाप्रधानभावेन, असत्प्रवृत्त्या प्रबलावश्यवेद्यचारित्रमोहोदयादीन्द्रियानुकूलाचरणरूपया युक्तमपि फलांगं मोक्षलक्षणफलनिमित्तं भवति । कुत इत्याह- अनुबंधो ज्ञानावरणादिपापप्रकृतीनां उत्तरोत्तरवृद्धिरूपस्तस्य
.८९ प्रतिपदि विशुद्धाविभावतः सम्यग्रूपन्तु ॥14 ९० नष्टे व छादूमस्थिके शाने ॥