________________
६७
ज्ञानं हानोपादानफलं स्पष्टतरमुपलभ्यते, तथाऽभिन्नग्रन्थीनां द्रव्यश्रुतप्रतिभासमात्रमेव भवति, असूक्ष्मप्रज्ञत्वात्, भिन्नग्रन्थीनां तु हानोपादानफलं विशेषविषयं तत्परिपूर्णमेवेति । तदिदमाह
"विसयपडिहासमित्तं बालस्सेवक्खरयणविसयंति। . वयणाइमेसु नाणं सव्वच्छन्नाण मोणेयं ॥१॥ भिने तु इतो नाणं जहक्खरयणेमु तग्गयं चेव ।५९। त्ति८७
ननु भिन्नेऽपि ग्रन्थौ माषतुषादीनां न विशदविमर्शवशोपलब्धविशुद्धतत्त्वतया शुद्धबोधः समुज्जृम्भते अतिनिबिडजडिममनचित्तत्वात्ततः कथं तत्र सूत्राधानसंभव इत्यत्राहगंठिम्मि विभिन्नंमि नाणं पडिबंधओ वि पडिपुण्णं । जह पाडिवओ चंदो पडिपुनो सुकपक्खम्मि ॥६०॥
अन्यौ विभिन्ने प्रतिबंधतोऽपि तथाविधज्ञानावरणोदयकृतविघात संभवेऽपि, ज्ञानं प्रतिपूर्ण अविकलमेव "तमेव, सच्चं णीसंके जं जिणेहिं पवेइअ८८" इत्यादिश्रद्धानरूपया गीतार्थप्रज्ञापनीयत्वादिरूपया बा योग्यतया तुच्छस्यापि तज्ज्ञानस्य पूर्णत्वादिति भावः । स्वरूपतस्तुच्छस्यापि योग्यतया पूर्णत्वव्यपदेशे दृष्टान्तमाह-यथा शुक्लपक्षे प्रातिपदः प्रतिपत्तिथिसम्बन्धी, चन्द्रः प्रतिपूर्णः तदुज्ज्वलभावस्याचिरादेव संपूर्णौज्ज्वलभावसंपनिमित्तत्वात् । तदिदमुक्तम्
८७ विषयप्रतिभासमात्र बालस्येवाक्षरत्नविषयमिति ।
वचनादिषु मानं सर्वच्छात्रानां ज्ञेयम् ॥
भिन्ने तु तो शानं यथारक्षनेषु तद्गतं चैवेति ॥ .. ८८ तदेव सत्यं निःशकं यजिनेः प्रवेदितम् ॥