________________
एतदेव सोदाहरणं भावयतिइह दव्वसुत्तजोगा पायमसंता य भावओ संता । बालस्स बालभावे जह नाणं जह य तब्विगमे ॥५९॥
इह द्रव्यसूत्रयोगाः प्रायोऽसन्तः, मणौ वेधपरिणामरहितेन गुणेन योगानामिव, तत्प्रयोजनार्थिभिः पुम्भिः संपाघमानानामपि तेषां बाह्यरूपतया मध्यप्रवेशविरहात, स्वच्छन्दतया मतिव्यापारेणेव जतुप्रभृतिना श्लेषद्रव्येण रत्नस्य संयोजनेच्छाया विनाशस्येव मूलतो भ्रंशस्य संभवात्तदन्तरेण च तत्र तस्याव- - स्थानस्थैर्याभावात्, प्रायोग्रहणेन चैतज्ज्ञापयति यदपुनर्बधकादीनामाज्ञारुचीनां द्रव्यसूत्रयोगोऽपि व्यवहारेण तात्त्विकः, शुद्धबोधलाभावंध्यहेतुत्वादिति, यथोक्तं योगविंदौ-"अपुनबन्धकस्यायं व्यवहारेण तात्त्विक" इत्यादि। चः पुनरौँ भिन्नक्रमश्च, भावत इत्युत्तरं योज्यते, भावतश्च अविरतसम्यग्दृष्ट्यादीनां द्रव्यसूत्रयोगा भिषग्रंथितया मध्यप्रविष्टत्वेनावस्थानस्थैर्याद, सन्तः परमार्थसन्तो, निश्चयतो व्यवहारतश्च, तात्त्विकत्वात् । येषामपि मरुदेव्यादीनां व्यवहारतो नोपलभ्यन्त एते, तेषामपि निश्चयात् एतत्सत्त्वमभ्युपगन्तव्यम्, तत्फलस्य संपन्नत्वात्, अत एवाचे पूर्वविद इत्यादिकमुपपद्यते, केवलज्ञानप्राप्तियोग्यतयाऽनुमीयमानस्याघशुक्लद्वयस्य तत्र भावतः पूर्ववित्वं विनाऽसंभवात्, अन्यथा सूत्रार्थानुपपत्तेरित्यादिकं विवेचितं लतादौ । इहापि चानुपदमेव गंठिम्मीत्यादिना विवेचयिष्यते किश्चिदित्यवधेयम् । उक्तार्थे दृष्टान्तमाह-बालस्य बालभावे यथा च तद्विगमे बालभावनाशेऽविकलतारुण्यप्राप्ती, यथाहि-बालस्य बाढ़मावेऽक्षरत्नादौ न विवेकः समुज्जृम्भते, किन्तु विषयप्रतिभासमात्रमेव भवति किञ्चिदिदमित्यादि, तद्विगमे च तद्गतगुणदोषादिपरि