________________
ततुच्छा, तत् क्रियाया ध्यानोपस्काररूपपरमविशुद्धिजनकताया घटकं अध्यात्मम् , अनुबन्धप्रधानात् उत्तरोत्तरधर्मसंतत्यविच्छेदकारिणः शुद्धाज्ञायोगाल्लभ्यम् ॥५६॥
नन्वयं केषां भवति, सम्यग्दृशामित्युक्तमेवेति चेत्, किमत्र नियामकं, शुद्धाज्ञाया आहेतश्रुतरूपायाः प्रागपि लाभसंभवादत आहगंठिम्मि अभिन्नम्मि एसो पुण तत्तओ ण जीवाणं । नाणफलाभावाओ अन्नाणगुणा जओ भणियं ॥५७॥ ___ अन्धौ धनरागद्वेषपरिणामलक्षणे अभिन्न अपूर्वकरणवजेणाकृतच्छिद्रे, एष शुद्धाज्ञायोगः, तत्त्वतोऽन्तर्वृत्त्या न भवति जीवानां, कुत इत्याह-ज्ञानफलाभावात् शब्दार्थमात्रगोचरश्रुतज्ञानसत्वेऽपि सूक्ष्ममोहेन तत्वविचारणाभावात् । तद्धि तत् फलम् , तदाहुः-मुद्धेः फलं तत्त्वविचारणं चेति, ततोऽज्ञानगुणादेयोपादेयविवेकशून्यत्वरूपतद्गुणसाम्राज्यात् ॥५७॥ .. . . ____उतार्थे संमतिं प्रदर्शयति यतो भणितमागमेवेहपरिणामरहिए न गुणाहाणमिह होइ रयणम्मि । जह तह सुत्ताहाणं न भावओ भिन्नगठिम्मि ॥५०॥ ___ वेधपरिणामरहितेऽवातितमध्यच्छिद्रे प्रयोगपाटवादपि, न नव, गुणाधानं सूत्रतन्तुप्रवेशः, इह भवति, रत्ने परागादौ, यथा, तथा सूत्राधानं पारगतोदितागमन्यासलक्षणम्, न नैव, भावतः तत्त्ववृत्याऽभिषग्रंथे जीवे, तत्राचापि सूत्राधानस्य सद्बोधसंपादकसामर्थ्याभावात् , तत्संपादनेन च तस्याविकलस्वरूपलामसंभवादिति ॥५॥