SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रकारान्तरेण व्यवहारमुपपादयन्नाहअहवाभिमाणमत्तं ववहारो णय ण एस तचंगं । णियविसयदीवणत्यं इच्छाजणिओ जमभिमाणो ।५३॥ . अथवा अभिमानमात्र, इतरनिषेधांशे बाधितविषय एष, व्यवहारो दैवकृतमिदं न तु पुरुषकारकृतमित्यादिलक्षणः । नन्वेवमुभयनयसमाजरूपस्याद्वादवाक्यजन्यसमूहालंबनज्ञानविरोधित्वादपारमाथिकोऽयं स्यादित्यत्राह-न चैष व्यवहारो न तत्वांगं, यद् यस्मात् अभिमानः प्रकृतभ्रमलक्षणः निजविषयस्य अल्पाभावविवक्षालक्षणस्य स्वसाध्यस्य, दीपनार्थ आविर्भावाय, इच्छाजनितः स्वरससिद्धः, व्यवहारमयाहितवासनावंतो हि क्वचन कार्य दैवजनितत्वं प्रतिसंदधानास्तुल्यवित्तिवेद्यतयाऽल्पप्रयत्नजन्यत्वमपि प्रतिसंदधति, ततोऽल्पाभाववचनस्य स्वसंप्रदायसिद्धत्वेनेष्टतया तत्साधनतया ज्ञात, तत्र तदभावज्ञानमिच्छन्ति, ततश्चेष्टतत्साधनसंकल्पप्रवृत्तौ तथा जानन्ति इतीच्छाजन्यमामासिकं तदभावज्ञानं न तज्ज्ञानप्रतिबंधकम् , अनाहार्यतदभाववत्ताज्ञानस्यैव तद्वत्ताज्ञानप्रतिबन्धकत्वावधारणात् । युक्तं चैतत्, इत्थमेव स्वविषयप्राधान्यस्य संभवात्, आभासिकावधारणस्यैव प्राधान्यपदार्थत्वात् । इत्थमेव नयानामितरनयार्थनिराकरणमुपपद्यते, अन्यथेतरांशप्रतिक्षेपित्वेन दुर्नयत्वापत्तेरिति विवेचितं नयरहस्ये ॥५३॥ तदेवमाज्ञायोगत उभयसाम्राज्यसिद्धः स एव श्रेयानिति विशिष्टकलमुखेनोपदिशतितम्हा आणाजोगो अणुसरियन्वो बुहेहिं जं एसो। कज्जलमिवप्पईवो अणुबंधइ उत्तरं धम्मं ॥५४॥ तस्मात् उभयसाम्राज्यनियतत्वात, आज्ञायोगोऽनुसर्तव्यो
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy