________________
नन्वल्पत्वं बहुत्वं वा न प्रकृतव्यवहारांगम्, अल्पस्याप्युत्कटस्य स्वकार्यक्षमत्वात् बहोरप्यनुत्कटस्याकिञ्चित्करत्वात् , व्यपदिश्यते च बहुतरेणापि प्रयत्नेन जनिते दरिद्रकुरूपकुशीलोषहतेन्द्रियधिग्जातीयराज्यलाभादौ दैवकृतत्वव्यपदेशः, तत्र देवस्यैव बहुत्वं कल्प्यत इति न दोष इति चेत् , न, कार्यगतविशेषासिद्धौ तदसिद्धे, उत्कटत्वस्य तु परिणामविशेषप्रयोज्यस्यानपायत्वात् , बहुत्वाल्पत्वपदाभ्यामुत्कटत्वानुत्कटत्वे एवोच्यते इति को दोष इति चेत्, न, तथापि कालान्तरीयप्रयत्नापेक्षयोत्कटेनेदानींतनाल्पदेवेन जनिते दैवकृतत्वव्यपदेशापत्तेः इदानींतनत्वस्य प्रयत्नविशेषणत्वान दोष इति चेत्, न, तथापि परकीयप्रयत्नमादाय तदोषतादवस्थ्यास् । वसमानाधिकरणत्वस्यापि विशेषणान दोष इति चेत्, न, तथापि कालान्तरीयदेवमादाय तदोषतादवस्थ्यात्, स्वसमानकालीनत्वस्यापि विशेषणत्वाचा दोष इति चेत्, न, तथापीतरावधारणार्थप्रतिषेधानुपपणे न दैवकृतमित्यत्र स्वसमानाधिकरणस्वसमानकालीनपुरुषकाराधिकदेवस्याप्रसिद्धत्वेन तज्जनितत्वस्य निषेद्धमशक्यत्वादिति चेत्, अत्र ब्रूम; प्रकृते एतत्कार्यजनकदैवे निरुक्तपुरुषकाराधिकत्वाभावान्वयात कार्यविशेषापेक्षनिरुक्ताधिक्यावाधाद्वा न दोष एकस्यापि भावस्य द्रव्याद्यपेक्षया विचित्रत्वात्तथैव वस्तुस्थिते शबलत्वेनानांशिकस्याप्यांशिकत्वाविरोधात् । यत्तु दैवजनितत्वादिक चैत्रप्रभवत्वादिवजातिविशेष एवेति, तन्त्र, सर्वत्रैव दिव्यशा तदवधारणात्, व्यावहारिकं तद्विनमेवेति चेत्, न, व्यवहारस्य विषयसंकोचमात्रेणवोपपादनादधिककल्पनायां मानाभावात् ॥५२॥