________________
यदि चोत्कृष्टापकृष्टशुभाशुभानुबंध्यात्मकारिदैवभेद एवेष्यते, तदा नायं दोषावकाश इति, एतदेवाह-तत् अधिकृतदेवं, पुरुषकारं नियताभिसंधिकप्रयवरूपम्, आक्षिपति नियतफलजननाय व्यापारयति । समाधत्ते, नन्वित्यक्षमायाम्, अन्यत्र पुरुषकारे, तुल्यमिदं शक्यं ह्येतत् पुरुषकारवादिनापि वक्तुं पुरुषकार एव तथास्वभावत्वात् कर्मोपक्रम्य शुभमशुभं वा फलं जनयतीति । देवेन पुरुषकारस्येव तेन देवस्यापि किंकरवद्गले गृहीत्वा व्यापारयितुं शक्यत्वात् । तदिदमाह- .
"तारिसयं चिय अहयं सुहाणुबंधे अझप्पकारित्ति । पुरिसस्स एरिसत्ते तदुवकमणम्मि को दोसो८३" ॥४९॥
एतदेव भावयतिजह कम्मसंतई इह तह तह परिणामिणित्ति मणंति। तह पुरिसगारधारा जुत्ता परिणामिणी वोत्तुं ॥५०॥
यथा कर्मसंततिः स्वहेतोर्लब्धातिशया एकाश्रया कर्मपरिणामश्रेणी, तथा तथा परिणामिनी स्वाश्रयाऽपृथग्भूतप्रतिनियतफलजननी, इति मन्यन्ते कर्मवादिनः, तथा पुरुषकारधारा जीवव्यापारसंततिः, युक्ता परिणामिनी प्रतिनियतफलजननी वक्तुम् , उत्तरोत्तरपुरुषकारे पूर्वपूर्वपुरुषकारादतिशयाधानोपपत्तेः । अयैवं पुरुषकारस्य तत्तत्फलं प्रति विलक्षणशक्तिमत्वेन हेतुत्वे पुरुषकारत्वेन सामान्यहेतुत्वभंगप्रसङ्गः । किंचैतादृशशक्तिकल्पनमुदासीनपदार्थेऽपि सुवचम् , अपि चैवं तत्क्षणविशिष्टकार्ये तत्क्षणस्य हेतुत्वात् स्वाश्रितकार्ये चाश्रयस्य तथात्वादनतिप्रसङ्गात् कारणा८३ तादृशं चैवाहतं शुभानुबन्धमध्यात्मकारीति ।
पुरुषस्यतारशत्वे तदुपक्रमणे को दोषः ॥ ..