________________
निश्चयात्, प्रतिमातुल्यश्च प्रतिमानिष्पादनक्रियासदृशश्च, पुरुषकारः, इति पादपूरणे, प्रागुक्तोपपत्तिहेत्वों वा । म च "शक्तयः सर्वभावानां कार्यापत्तिगोचरा" इति वचनात् कार्यानुपहितयोग्यतायां मानाभावात् किमजागलस्तनायमानेन पुरुषकारेणेति शङ्कनीय, कुतोऽपि हेतोः प्रतिमानुत्पत्तावपि दारुदले शब्दज्ञानप्रवृत्तिरूपस्य योग्यत्वव्यवहारस्यायोग्यत्वव्यवहारविलक्षणस्यागोपालागनाप्रसिद्धत्वेन पराक मशक्यत्वात् । अत एव न दैवस्यैव प्राधान्यमित्याह-देवेन कर्मणा, फलाक्षेपे पुरुषकारमनपेक्ष्य फलजननेऽभ्युपगम्यमाने, अतिप्रसङ्गो अनवाप्ताशेऽपि मोक्षफलापत्तिलक्षणः, भवेत् प्रकटः सर्वलोकसिद्धः ॥४८॥
अथ न दैवमात्रमेव फलहेतुर्येनातिप्रसङ्गः स्यात् , किन्तु विशिष्टदैवमेव तथेति शङ्कतेअह तं विसिटमेवं तेण न दाणाइभेअणुववत्ती। अक्खिवइ पुरिसगारं तं नणु अण्णत्य तुल्लमिणं ॥४९॥ ___ अथ तत् दैवं, विशिष्टं विलक्षणशक्तिमदेव, एवं अधिऋतफलहेतुः, तेन दानादेः सकाशात् आदिना हिंसादिग्रहः, यो भेदः पुण्यपापोत्कर्षापकर्षलक्षणः, तदनुपपतिनं भवति, सर्वास्तिकसम्मततदनुपपत्तिहिं प्रकृतिरेवैकाकारा शुभाशुभरूपासु क्रियासु व्याप्रियत इति नियुक्तिकसांख्यमतमास्थितानां पुरुषकारवादिभिर्दातुं शक्येत अध्यात्मभेदं विना तदनुपपत्तेः, तथा च पठन्ति ते
"अभिसन्धेः फलं भिगमनुष्याने समेऽपि हि । परमो नः स एवेह वारीव कृषिकर्मणि ॥" इति ।