________________
सदाबाद , तदयोमाद, तथा एतदपि उपस्थितकर्मव्यानी सदभिरिनिपंधनाविध्यासेवने तत्साफल्यं तत्परित्यागे ब बझैफल्यादावारोग्यमिति द्रष्टव्यम् । यो हि यभिमित्तो शेष: स तत्प्रतिपक्षासेवात एव निवर्तते, यथा शीतासेवनात्मक जाडयमुष्णसेवात इति ॥४५॥ ___ तदेवं परिशुद्धाज्ञायोगस्य दुष्टकर्मोपक्रमहेतुलमित्युक्तम् । तत्र च स्वभावत एव लाघवं भवतीत्येकांतप्रतिक्षेपायास्यैव पुरुषकारत्वं विधातुं कर्मणोऽवश्यवेधत्वनियमेनोकार्थानुपपत्तिशरकां च परिहर्तुमाहएसो य पुरिसगारो ण धावणाई गयाणुगइओ अ । अणिययसहावकम्मे एसो अ उवकमणहेऊ ॥४६॥
__एष च परिशुद्धाज्ञायोगलक्षणः, पुरुषकार आत्मन्यापारः, क्रौपक्रमलक्षणं फलं प्रति 'द्रष्टव्यः, न धावनादिः लौकिकः, आदिना वरगनादिग्रहः, न वा गतानुगतिक अंधपरंपरानुपाती, इत्यमेवास्मदीयैः समाचरितमित्यभिग्रहाभिनिवेशपेशलोऽज्ञानिनां पाखंडिनां जैनाभासानां वा दुःषमाकालादिकदालंबनग्रहणप्रवणानामविध्युपजीविनां संवन्धी, ततः कर्मानुबन्धस्वैवानुवृत्तेः, तथा एष चानियतस्वभावे फलदानं प्रस्यनिक्तरूपे कर्मणि, उपक्रमहेतुः,
तेन" नाक्षीयते कर्म कल्पकोटिशतैरपि। 'अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥" - इति सर्वलोकप्रवादश्रवणान भयं विधेयम् । विविधं हि जीनाः प्रथमतः कर्म वघ्नन्ति, एकं शिथिलपरिणयतया पर्स अत्यनियतरूपं, द्वितीय चात्यंतदृढपरिणामनिबद्धतयाऽवयं स्वफलसंपादकम् । तत्र प्रथमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रती