________________
५५
सर्वातिचारपरिहारपरायणेन, इत्थमेवाज्ञाशुद्धयुपपत्तेः, ततः किं स्यादित्याह - परिशुद्धाज्ञायोगे दीर्घकालादरनैरंतर्यासेवितविशुद्धाज्ञासंपत्तौ, कर्म निकाचनावस्थामप्राप्तं ज्ञानावरणादिकं, रौद्रमपि नरकादिविडंबनादायकत्वेन दारुणमपि न फलति न स्वविपाकेन विषच्यते, यथा हि नक्तं स्वच्छंदप्रसरा अपि शशांककराभगवतो रवेरुदये निष्फलत्वमेव बिभ्रति तथास्वाभाव्यनियमात् तथा परिशुद्धाशाभ्यासादात्ममात्रप्रतिबद्धमानसानामत्यन्तनिर्गुणभवभ्रान्तिपरिश्रान्तानां दारुणपरिणाममिथ्यात्वादिनिमित्तोपात्तमप्यशुद्धं कर्म न स्वफलमुपधातुं समर्थ स्यादिति ॥ ४४ ॥ एतदेव प्रतिवस्तूपमया भावयति —
जह तुल्लनिमित्ताणं दीसह वाही तहा समाही अ । परिहारेयरभावा तहेव एपि दवं ॥४५॥
यथा तुल्यनिमित्तयोः बहुसदृशतायामेकत्वप्रतिपत्तिहेतुना व्यवहारमयादेशेनैकभोजनादिजो निश्चयत एवं वक्तुमशक्य
त्वात्
“ नाकारणं भवेत् कार्यं नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्कार्यकारणयोः क्वचित् ॥ इति ग्रन्थेन तेन कार्यभेदे कारण भेदाभ्युपगमात् । तदिदमुक्तं"ववहारओ णिमितं तुलं एसो वि एत्थ तंतंगं । एतो पबित्तिओ खलु णिच्छयणयभावजोग्गओ८२ ॥ ति । म्याधिस्तथा समाधि दृश्यते कथमित्याह- परिहार उपस्थितरोगनिदानाजीर्णादिपरित्यागः, इतरच अपरिहारः,
८२ व्यवहारमयो निमित्तं तुल्यमेषोऽप्यत्र तत्त्वाङ्गम् । इतः प्रवृतितः चालु निश्चयनयभावयोग्यत इति ।