________________
मधिकृतनयावलंबनस्यादुष्टत्वात् , विपश्चितं चेदं कल्पलतायाम् ॥४२॥
ननु सम्यग्दृशो भावाज्ञायां मार्गप्रवृत्युपपत्तौ सर्वेषां कालावैषम्येन मुक्तिप्राप्तिप्रसङ्ग इत्यत आहपडिबंधोवि य एत्यं कंटकजरमोहसन्निभो भणिओ। तंते तविगमेणं मुक्खपुरे गमणमइरेणं ॥४३॥
प्रतिबन्धोऽपि विसामग्रीकृतकालविलंबरूपः, अत्र भावाज्ञायाम्, पाटलिपुरादौ प्रस्थितस्य पथिकस्येवावश्यं वेद्यकर्मपाशात्, कंटकज्वरमोहसन्निभो मेघकुमारदहनमुराईदत्तानामिव सन्निहितदूरदूरतरावधिकत्वात् , भणितः, तन्त्रे उपदेशपदादौ, देशसौराज्यमुभिक्षत्वादिगुणपरिज्ञानवतः पथिकस्य कंटकादित इव मोक्षविषयकाजरामरत्वादिगुणपरिज्ञानवतः सम्यग्दृशः सुखशीलत्वमायोन्मादशबलानुष्ठानादसदभ्यासवतो मृदुमध्याघिमात्रप्रतिबन्धोपपत्तेः। तद्विगमेन उक्तप्रतिबंधविगमेन, मोक्षपुरे अचिरेण अविलंबेन, गमनं संपद्यते, असति प्रतिबन्धे भावाज्ञाया मुक्तिप्रापकस्वभावत्वात् ॥४३॥
यत एवं भावाज्ञावतोऽपि प्रतिबन्धः सम्भवी अतोऽत्रातिशयितत्वं कर्त्तव्यतयोपदिशश्नाहएवं णाऊण सया बुहेण होअब्बमप्पमत्तेण । परिसुद्धाणाजोगे कम्मं णो फलइ रुद्दपि ॥४४॥ .. एवं भावाज्ञाप्राप्तावपि प्रतिबन्धस्य कटुकविपाकतां ज्ञात्वा, सदा सर्वदा, बुधेन मुक्तिमार्गप्रवृत्तिलक्षण, भवितव्यमप्रमत्तेन