________________
प्रथममगे भावसत्वेऽपि द्रव्याप्रच्यवामिधानादुपयुक्तानामपि द्रव्याशा नायुक्तेति फलितम् ॥३९॥ ___ उक्ता सप्रसगं द्रव्याज्ञा, अयोपादेवा भावानां निरूपयतिभावाणा पुणं जायइ सम्मदृिष्टिस्स मूलमहिगिश्च । कजाकज्जे णाओ पवट्टइ तओ हिए पायं ॥४०॥
भावाझा पुनर्जायते सम्यग्दृष्टेः, मूलं आदिम् , अधिकृत्य तदनंतरमेव प्रशमसंवेगनिवेदानुकंपास्तिक्यरूपमोक्षपुरप्राप्तिसार्थोंपलब्धः। ततः कार्याकायें इहलोकपरलोकयोहिताहिते नीतिव्यवहारकुनीतिपरद्रव्यापहारादिलक्षणे, सात्वा इहलोकपरलोकयोः शुभाशुभफलत्वेन निश्चित्य, प्रायो हिते प्रवर्तते, असति प्रतिबंधे निवेदप्राणस्य तस्य हित एवोत्कटेच्छाजननवभावत्वात्, तद्गुणप्राबल्यप्रयोज्यप्रयत्नस्य विरत्यावरककर्मस्थित्यपवर्तनप्रवणत्वाच ॥४०॥ ___ अपि च मागप्रवृत्तिस्वभावस्य जीवस्योन्मार्गप्रत्तिहेतुमिध्यात्वांभ्यनिवृत्तौ स्वभावतः एव हिते प्रवृत्तिरित्युपपादयतिपरपरिणामुम्मग्गे चत्ते लद्धे अ नाणदीवम्मि । मग्गम्मि जं पवट्टइ एस सहावा हु जीवस्स ॥४१॥ ___परपरिणामे लौकिकमावचनिकवासनाजनितस्वाभेदस्वीयस्वादिज्ञानरूपे तजनिताभ्यासिकपरद्रव्यसंबंधरूपे च, उम्मागे, त्यक्ते सति, लब्धे च ज्ञानदीपे, मार्गे स्वात्मप्रतिबंधमात्रविश्रांतश्रामण्यरूपे, यत् प्रवर्तते एष स्वभावो हि जीवस्य, न खलु जपाकुसुमतापिच्छोपरागजनितपाटलिमकालिमबिलये स्फटिकस्य प्रादुर्मवन्ती शुद्धतापि में अस्वाभाविकी, अन्यामधीनत्यत, एवं