________________
क्षणे, द्रव्येण भावेन च, छेकत्वं वंदनया संपूर्णफलप्रयोजकत्वलक्षणम्, भणितम्, तथा च तद्ग्रन्थः
"रूप्पं टंक विसमाहयक्खरं गवि य रूवगो छेयो । दोण्हं वि समाओगे वो छेयत्तणमुवेइ८० ॥ रूप्पं पत्तेयबुहा टंकं जे लिंगधारिणो समणा । दव्वस्स य भावस्स य छेओ समणो समाओगे८१ ॥ ति।
अत्र द्रव्यभावसमायोगवतः टंकयुक्तरूप्यस्थानीयप्रथमभंगपतितस्य वंदना मोक्षफलतया एकान्तशुद्धैव । द्रव्यानुपेतस्य भाववतः टंकानालिखितरूप्यस्थानीयद्वितीयभंगपतितस्यापि मोक्षाभ्युदयफलसाधकत्वात्तथैव, भावप्राधान्यात्, आह च
"क्रियाशून्यश्च यो भावो भावशून्या च या क्रिया।
अनयोरंतरं ज्ञेयं भानुखद्योतयोरिव ॥" इति । ___ भावविहीनद्रव्यक्रियावतः टंकलिखितभिन्नद्रव्यस्थानीयतृतीयभंगपतितस्योभयहीनस्य मुद्रामात्रस्थानीयचतुर्थभंगपतितस्य च प्रायः क्लिष्टसत्वानां संभवतीति कुदेवत्वादिप्रयोजकतयाऽनिष्टफलैव। अन्ये त्वाहुः, नाममात्रेणाईत्यप्यंत्यभंगद्वयवंदना लौकिक्येव, लौकिकवंदनायाः फलस्यैवैतस्याः फलत्वात् । यदि चेयं जैनी स्यात्, तदा विध्यविध्यासेवनसहकारिभ्यामिष्टानिष्टार्थफला स्यात, तस्यास्तत्स्वभावत्वात्, न चेतोऽविध्यासेवनेऽपि साक्षादनिष्टफलं पश्यामः, ततो जैनीवदाभासमानाऽपीयं लौकिक्येवेति । अत्र
८० रुप्य टंक विषमाहताक्षरं नापि च रूप्यक छेकः ।
इयोरपि समायोगे रूप्यं छेकत्वमुपैति ॥ ८१ रूप्यं प्रत्येकबुधाः टंक ये लिङ्गधारिणः श्रमणाः । . द्रव्यस्य भावस्य छेकर भ्रमण समायोग इति ।