________________
स्थलादिविशेषणेभ्यः प्राणातिपातादिभ्योऽविरतावानिवृत्ताः सूक्ष्मादिविशेषणेभ्यस्तेभ्य एवेति विरताविरतास्तेषाम् , एष न्यस्तवः, खलुरवधारणे मित्रक्रमच, युक्त एव सङ्गत एव, किम्फलोऽयमित्याह-संसारं भवं प्रतनुमल्पं करोतीति संसारपतनुकरणः, इह च विशेषणस्य परनिपातः सिद्धसेनाचार्य इत्यादाविव न दुष्टः, लुप्तभावप्रत्ययत्वाद्वा संसारप्रतनुताकरण इति दृश्यम् । ननु कथञ्चित् सावधतया सदोषत्वेनानाश्रयणीयत्वादस्य कयं संसारप्रतनुकारित्वमित्याशझ्याह-द्रव्यस्तवे आश्रयणीयतया साधयितुमिष्टे, कूपदृष्टान्तोऽवटखननदृष्टान्तः । यथाहिं तत्खनने श्रमपिपासादिदोषसम्भवेऽप्यग्रे स्वादुजलप्रादुर्भुतौ तदपनयनपूर्वकगुणान्तरदर्शनाभायुक्तत्वं तथा द्रव्यस्तवेऽपि पृथिव्याघारम्भप्रभवदोषापनयनपूर्वकगुणान्तरदर्शनान तथात्वम् । तथा महानिशीयश्रुतस्कंधेऽप्युक्तम्___"अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो ।
जे कसिणसंजमविऊ पुष्फाइन कप्पए तेसिं६५ ॥" इत्यादि । तथा"काउं पि जिणाययणेहिं मंडियं सयलमेइणीवी । दाणाइचउक्केण वि मुटु वि गच्छिन्न अच्चुकं न परओ६६" इत्यपि।
__तत्र दव्यस्तवाचारित्रमुत्कर्षयितुं प्रतिपादयता तस्यानन्तयेणाच्युतप्राप्तिफलकत्वं दानादिचतुष्कसमकक्षत्वं तत्प्राणत्वं वा प्रतिपादितं भवतीति विमुच्यासदई रहसि पर्यालोचनीयम् ।
६५ भकृत्स्नप्रवर्तकानां विरताविरतानामेष खलु युक्तः ।
ये कृत्स्नसंयमविदः पुष्पादिन कल्पते तेषाम् ॥ ६६ कृत्वापि जिमायतनः मण्डितं सकलमेदिनीवर्तम् ।
दानादिचतुष्केनापि सुष्वपि गच्छेत् मच्युतं न परत