________________
-
नन्वतिमुक्तकेऽनुमोद्योपेक्षयोः पारिणामिकभावारम्भयोमेंदान्मा भूदेकानुमोदन इतरानुमोदनम्, प्रकृते तु द्रव्यस्तवस्यैव स्नान पुष्पार्चनकृष्णागरुधूपादिपूर्वापरक्रियाकदम्बकात्मकस्य जलादिजीवप्राणत्यागानुकूलच्यापारत्वादेकानुमोदन इतरानुमोदनमावश्य कमित्याशय प्रसङ्गान्तरमाहसोमिलदाहाणुमई अवि जिणवरणेमिणा कया होइ । गयसुकुमालमसाणट्ठाणं अणुमण्णमाणेण ॥३१॥
अपि पुनरेवमारम्भानुमतावभ्युपगम्यमानायाम्. जिनवरनेमिना केवलिमुख्येन नेमिनाथेन, सोमिलदाहस्य निजपुत्रीपरित्यागानुसन्धानप्रज्वलितरोषाग्निना श्वसुरेण सोमिलेन कृतस्य भगवन्तं नेमिनाथमापृच्छय विपुलनिर्जरालाभार्थितया स्मशाने कृतकायोत्सर्गस्य मेरोरिव निःप्रकम्पस्य गजसुकुमारस्य तीव्राङ्गारभृतमृत्तिकापालिबन्धेन मस्तकदाहस्य.. अनुमतिः, कृता भवेद, किम्भूतेन, गजमुकुमारस्मशानस्थानमनुमन्यमानेन, एतदीयं स्मशानस्थानमेव हि शिरोदहनानुकूलव्यापारः, तदभावे सोमिलव्यापारानुपपत्तेः, तथा च तदनुमोदने तदीयशिरोदहनानुकूलव्यापारस्याप्यनुमतिप्रसक्तिः, यदि चात्र निर्जरानुकूलव्यापारत्वेनैवानुमतिस्तदीयतद्व्यापारत्वादिना वा, न तु रूपान्तरेण, दण्डादौ घटसाधनत्वादिना वा घटादिविषयकेच्छाजन्येच्छाविषयत्वेऽपि द्रव्यवादिना तदभाववदुपपत्तेरिति विभाव्यते, तदा प्रकृतेऽपि तुल्यम्, द्रव्यस्तवस्यापि जिनपूजात्वादिनैवानुमतेः॥३१॥
नन्वत्र भावानुमतिद्वारकानुमतिर्न युक्ता धर्मजनकत्वभ्रममूलकप्रवृत्तिविषयत्वेनास्य धर्मार्थहिंसात्वेन धर्माजनकत्वादिति पापिष्ठमतमाशङ्क्य निराकुर्ववाह