________________
मुक्त्युपायानुसरणे दृढाभ्यासवान् तथा पञ्चभिरीर्यादिभिः समितः, तिसृभिर्मनोगुप्त्यादिभिर्गुप्तो भवति, चारित्री सर्वविरतः, महासत्वोऽमरनरपर्षदक्षोभ्याज्ञारुचित्वावगुण्ठितयोगस्थैर्यनणवत्त्वात् ॥२५॥ एएसि दव्वाणा भावाणाजणणजोग्गयाए उ । थोवावि हु जं सुद्धा बीआहाणेण पुण्णफला॥२६॥ ___एतेषामपुनर्बन्धकादीनां सर्वविरतपर्यन्तानाम्, द्रव्याज्ञा स्वस्वोचितबाह्यानुष्ठानरूपा, भावाज्ञाजननयोग्यतया, तु, तुरेवकारार्थः, मावासाजननयोग्यतयैव नान्यथा, नन्वेवं भावाज्ञालाभाव प्रागपुनर्बन्धकस्य द्रव्याज्ञोपपत्तावपि तदुत्तरमविरतसम्यग्दृष्टयादीनां तदनुपपत्तिः सिद्धासिद्धावस्थयोः फलतद्योग्यतयोर्विरोधादित्याशंक्याह-स्तोकापि अल्पापि, यद् यस्मात्कारणात् , बीजाधानेन शुद्धा सती पूर्णफला उत्कृष्टाज्ञाजननी भवत्याज्ञेति योगः । एवं चाविरतसम्यग्दृष्टयादीनामप्यनुत्कृष्टाज्ञाऽसम्भवेप्युतरोत्तरोस्कृष्टाशाजननाम द्रव्याज्ञानुपपत्तिरिति भावः ॥२६॥ ... अथ भाव एव भावाभिवृद्धिहेतुः "सइ संजाओ भावो पाय भावतरं तओ कुणइ७" ॥ इति वचनात् । जीवविशेषोकृष्टभावेऽनुत्कृष्टभावसञ्चयस्य हेतुत्वावधारणात्, अत एवामृते देहगतमात्रे देहसौष्ठवारोग्यादिकमिवान्तर्गतशुभभावसद्भाव एव भक्तिवृद्धयादिकम् । अन्यैरप्युक्तम् । तदाह
"अमए देहगए जह अपरिणयम्मि वि सुभाउ भावत्ति । तह मोक्खहेउअमए अण्णेहि वि हंदि णिदिवा८ ॥
४७ सकृत्सखातो भावः प्रायो भाषान्तरं ततः करोति ॥