________________
कालमपेय मनसा कुताद्वा, इतोऽहं येन मया तदासौ न इत, इत्येवमनुध्यानाद्विरमणम्, इतरस्यासरखेन निवर्चयितुमशक्यत्वात्, मनसा कारिताच विरमणं 'हन्त न पुक्तं कृतं . यदसौ परेण न घातित' इति चिन्तनात, मनसानुमताच विरमा इतायनुस्मरणेन तदनुमोदनाव एवं वचसा तथाविधवचनमवचनात् । कायेन च तथाविधाङ्गविकारकरणात्, अथवा कुतादीनां मनप्रभृतिका निन्दनेन तदनुमोदन निषेधाभिवृत्तिः, अन्यथा तभिन्दनाभावे तड़नुमोदनानिवृत्तेः कृतादेः क्रियमाणादितुल्यतापत्तेः । वर्तमानकालमपेक्ष्य भावना च सुगमैव । भविष्यत्कालमपेक्ष्य तु मनसाऽकरणं हनिष्याम्येनमित्यचिन्तनाद, अकारणं च घातयिष्याम्येनमित्यचिन्तनाव, अननुमतिश्च भाविनं वधमनुश्रुत्य हर्षाकरणात, एवं वाचा कायेन च तथाविधचेष्टामिस्तत्तभिवृत्तिभाव्या । अथ कायवाङ्मनसां यथाक्रमं करणकारणानुमत्य एवं सम्भवन्ति न कारणादीनीति चेत्, न, वक्तृविवक्षाधीनविकल्पतल्पगतकारणादिभेदस्यापि दुष्परिहरत्वाव, कर्मबन्धविशेषप्रयोजकप्रयत्नभेदस्य प्रामापिकत्वाचा, अत एव कथं मनसा करणादीति प्रश्ने यथा वाकाययोरित्येर सिद्धान्तितं वृद्धैः । तथा चाहुः
आह कहं पुण मणसा करणं कारावणं अणुमई अ। जह वइतणुजोगेहि करणाई तह भवे मणसा५३ ॥ तयहीणता वयतणुकरणाईणं च अहव मणकरणं । सावज्जजोगमणणं पणतं वीयरागेहिं४४ ॥
४३ आह कथं पुनर्म नसा करणं कारापणमनुमतिश्च ।
यथा वाक्तनुयोगाभ्यां करणादि तथा भवेन्मनसा ॥ ४४ तदधीनत्वादचस्तनुकरणादोनां चाथवा मनःकरणम् ।
सावधयोगमननं प्राप्तं वीतरागैः ॥