________________
वस्थापेक्षया घटमानप्रतिपत्तिरूपाम्, सेवते भजते, कर्मलाघवेन मार्गानुसारिताभिमुखत्वात् ॥ २२॥
सुस्सूसइ अणुरज्जइ धम्मे णियमेण कुणइ जहसति । गुरुदेवाणं भर्त्ति सम्मद्दिट्ठी इमो भणिओ ॥ २३॥
शुश्रूषति धर्मं श्रोतुमिच्छति, धर्मश्रवणेच्छा वेह जिज्ञासोतरकालभाविनी तरुणीसमालिङ्गितरागज्ञतरुण किन्नरगेयशुश्रूषाधिका ग्राह्या, यदाह
“ यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किनरगेयश्रवणादधिको धर्मश्रुतौ रागः " ॥ इति ।
तथा, धर्मे कुशलानुष्ठाने, अनुरज्यति सामग्री वैकल्यात्तदकरणेऽपि तत्रैव चित्ताभिलाषमनुबध्नाति, कान्तारातीतदरिद्रब्राह्मणहविःपूर्ण भोजनाभिलाषादप्यधिकम्, तथा यथाशक्ति स्वयोगसमाधानमनतिक्रम्य न पुनरसङ्ग्रहेण, गुरुदेवानां धर्माचार्यपरमाराध्यानाम्, भक्ति वैयावृत्त्यादिप्रतिपत्तिरूपाम्, नियमेन नियोगेन अवश्यं मयैतद् गुरुकार्य, देवकार्य वा कर्त्तव्यमित्यविच्छिन्नाभिनिवेशलक्षणेन गुणश्रद्धालु मनुष्यचिन्तामणिवैयावृत्त्यनियमाधिकेन, करोति, अयमीदृग्गुणयुक्तः, सम्यग्दृष्टि:, भणितः प्रतिपादितः, शुश्रूषादीनां सम्यग्दर्शनलिङ्गत्वात्, व्रतप्रतिपत्तेश्च भजनाप्राप्तत्वेन नात्र ग्रहणम्, सम्यक्त्वप्रतिपत्त्युत्तरमप्रतिपातेन श्रावकत्वप्राप्त्यन्तरकालस्य पल्योपमपृथक्मानस्य कस्यचिदतिशयितवीर्योल्लासेन शीघ्रमपवर्त्तनेऽपि बहूनां यथोक्त्तान्तरोपपत्तेः, देवादिभवे च यावतीं स्थितिं क्षपयति तावत्या एव भवस्वाभाव्यादधिकाया अर्जनेन बहन्तरभा - वात् । तदिदमाह
66
“स्वस धम्मराओ गुरुदेवाणं जहा समाहीए । गावच्चे णियमो वयपडिवत्ती य भयणाओत्ति ४०" ॥२३॥