SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ तथापि भावाज्ञाराधनं प्रति तत्त्वतोप्रधानतयैव तयात्वम्, घट प्रति कुम्भकारेण कुम्भकारपितुरिव, सम्यग्दर्शनादिकं प्रत्यसद्भहपरित्यागेनान्यथासिद्धया द्रव्यदीक्षाया हेतुत्वायोगादिति । नन्वसद्हपरित्यागद्वाराऽपुनर्बन्धकादीनामिव, सकृद्वन्धकादीनामपि द्रव्याज्ञाया योग्यत्या हेतुत्वमविरुद्धम् , व्यापारेण व्यापारिणोऽन्यथासिद्धययोगात्, अन्यथाऽपुनर्बन्धकीयद्रव्याज्ञाया अप्यहेतुत्वादिति चेत्, सत्यम् , तथापि व्यवधानाव्यवधानाभ्यामेव समयप्रतिनियताभ्यां योग्यायोग्यत्वव्यवस्थिते फलसन्निधानासन्निधानयोहेतुभेदप्रयोज्यत्वेन तद्भेदव्यवस्थितेश्च सर्वथा स्वरूपपरावृत्ति विना सहकारियोग्यताया अप्यनुपपत्तेः, विवेचितं चेदं स्याद्वादकल्पलतायामिति नेह प्रयासः ॥२१॥ अथ केऽपुनर्बन्धकादयः कथं च तेषां योग्यतया द्रव्याज्ञा· सम्भव इति गाथापश्चकेनाह सो अपुणबंधगो जो जो पावं कुणइ तिब्वभावेणं । बहुमण्णइ णेव भवं सेवइ सव्वत्थ उचियठिई ॥२२॥ ___ सोऽपुनर्बन्धकः ग्रन्थिप्रदेशागतः सन् पुनरुत्कृष्टस्थित्यबन्यौपयिकयोग्यतावान्, यः, पापमशुद्धं कर्म, तत्कारणत्वाद्धिंसाधपि, तीव्रभावेन गाढसंक्लिष्टपरिणामेन, न करोति न विधत्तेअत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैमल्यविशेषत्वात्, तीवेतिविशेषणादापन्नमतीव्रभावात् करोत्यपि तथाविधकर्मदोपात्, तथा, नैव, बहु मन्यते उत्कटेच्छाविषयीकरोति, भवं संसारम्, तत्र सुखस्य दुःखानुबन्धित्वेनानिष्टत्वप्रतिसन्नानाद तदा, सर्वत्र मातापितृदेवातिथिप्रभृतिषु, उचितस्थिति देशकाला
SR No.023161
Book TitleUpdesh Rahasya
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan
Publication Year1967
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy