________________
"नाणस्स होइ भागी थिरयरओ दसणे चरित्ते य ।
धन्ना आक्कहाए गुरुकुलवासं ण मुंचंतित्ति१७" ॥ ----- न चैवं गुरुकुलवासत्यागिनां स्वस्मिन्नाज्ञारुचित्वस्वसंवेदनानुपपत्तिः, स्वाज्ञारुचौ भगवदाज्ञारुचित्वभ्रमात्तदुपपत्तेः । अपि च कुलवध्वादिज्ञातैरपि तत्र तत्र प्रवचने गुरुकुलवासात्याग एव दृढीक्रियते । तत्र निवसतामेव बाह्यानुष्ठानाभावेपि सदुपदेशश्रवणादिजनितसंवेगस्य क्षमादिगुणप्रकर्षस्य सुविहितसहायतया ब्रह्मचर्यगुप्तिविशुद्धेर्गुरुवैयावृत्यादिजनितमहानिर्जरालाभस्य चसम्भवात् । अपि चाजातकल्पवतामगीतार्थानां जातकल्पवतां गीतार्थानामपि ऋतुबद्धकाले पञ्चभ्यो वर्षासु च ग्लानत्वादिसम्भवात्ससभ्यो न्यूनतयाऽसमाप्तानामुत्सर्गतस्तत्क्षेत्रगतशिष्यभक्तपानवस्त्रपात्रादिविषयागमप्रसिद्धाभाव्यनिषेध उक्तः । तदाह -
"जाओ अ अजाओ अ, दुविहो कप्पो अहोइ विण्णेओ । इकिको पुण दुविहो, समत्तकप्पो अ असमत्तो१८" ॥ "गीयत्थ जायकप्पो, अम्गीओ खलु भवे अजाओ अ । पणगसमचकप्पो तदणगो होइ असमत्तो९" ॥ उउबढ़े, वासामु य सत्तसमतो तदणगो इयरो।
असमत्ताजायाणं ओहेण होइआहच्चंति (होइ आइव्वंति)२०"। १७ भानस्य भवति भागी. स्थिरतरको दर्शने चरित्रे व ।
धन्या यावत्कथं गुरुकुलबास नमश्चन्ति इति । १८ जातश्चाजातश्च द्विविधा कल्पश्च भवति विज्ञेयः।
पकैका पुनर्विविधः समाप्तकल्पश्चासमाप्तकल्पश्च । १९ गीतार्यों जातकल्पः, अगीतार्थः खलु भवेदजालश्च ।
पश्चकसमाप्तकल्पः, तदूनको भवत्यसमाप्तः॥ २० ऋतुबदे, वर्षासु च सप्तसमाप्तः तदूनक इतरः।
असमाप्ताजातानां ओपेन भवति आहत्य । (भवति आहवम् ) इति।
-
-