________________
पर्यालोचनकृतप्रत्यनीकाभिभवः, युगपद् गृहत्रयस्य भिक्षाग्रहणे एककस्योपयोगकरणेऽशक्तत्वाचदशुद्धिः, तत एव च प्राणातिपातविराधना, निमिचप्रश्ने च निःशङ्कतया तद्भणने मृषावादा, विप्रकीर्णद्रव्यदर्शने जिघृक्षादिभावाददचादानम् , स्त्रीमुखनिरीक्षणादौ मैथुनम् , तत्र स्नेहात्परिग्रह इति दोषकदम्बकम् , यतस्तस्मात्सद्वितीयस्यैव गमनमनुज्ञातम्, बहुकालभाविनि विहारे चैतद्विशेषत एव युज्यते । किञ्च “मुझं मे आउस्संतेणं भगवया एवमक्खायं १३" इत्याचारप्रथमसूत्रेपि श्रुतं मया वसता गुरुकुले भगवतैवमाख्यातमित्यर्थात्सर्बसमाचारस्यादौ निरूपितत्वेन गुरुकुलवासस्यैव प्रकृष्टाज्ञारूपत्वं निश्चीयते। यदाह - .
"एसा य परा आणा, पयडा जं गुरुकुलं न मोत्तव्यं । आयारपढमसुत्ते, एत्तो चिय दंसिकं एयं१४॥
इत्थं चाज्ञारुचित्वस्य गुरुकुलवासव्याप्यत्वं प्रतीयते, तदुभयपरिणामयोहेतुहेतुमद्भावात् , अत एव गुरुकुलवासाभावे आज्ञारुचित्वस्याप्यभावः तदाह - .
"एयम्मि परिचत्ते, आणा खलु भगवओ परिच्चत्ता। तीए अ परिचागे, दोहवि लोगाण चाउत्ति१५" ॥ "ता न चरणपरिणामे एवं असमंजसं इहं होइ । आसण्णसिद्धिआणं जीवाणं तहा य भणिमिणं१६ ॥ १३ श्रुतं मया, आयुष्मता भगवतैवमाख्यातम् ॥ १४ एषा च परा आशा प्रकटा यद् गुरुकुलं न मोक्तम्यम् । - आचारप्रथमसूत्रे, इत एव दशितमेतत् ॥ . १५ एतस्मिन् परित्यके, आक्षा खलु भगवतः परित्यक्ता।
तस्याश्च परित्यागे, योरपि लोकयोस्त्याग इति । १६. तस्मोन चरणपरिणामे एतदसमञ्जसमिह भवति ।
आसन्नसिद्धिकानां जीवानां तथा व भणितमिदम् ॥