________________
h
“पढमं नाणं तओ दया एवं चिट्ठइ सव्वसंजओ । अन्नाणी किं काही किं वा नाही छेयपावगं १०" ।। इति ग्रन्थेनागीतार्थस्य पापापरिज्ञानम्, न च तत्परिज्ञानविरहे तस्य तद्वर्जनं सम्भवति, न च तदभावे कामानासङ्गोऽपि, तस्य तत्त्वतो ज्ञाननिर्बर्त्तनीयत्वात्, अतो विशेषणान्यथानुपपत्त्यैवास्य विशेषविषयत्वमावश्यकम् ॥ १२॥ विपक्षे दोषमाह -
अore विरुज्झए किर गीअण्णविहारवज्जणप्पमुहं । अम्मि वि उचियमिणं तयण्णलाभंतरायम्मि ॥ १३ ॥
अन्यथोक्तसूत्रस्य गीतार्थाविषयकत्वे, विरुद्धयतेऽसङ्गतार्थं भवति, किल, गीतान्यविहारो गीतार्थानिश्रिताऽगीतार्थविहारस्तद्वर्जनप्रमुखम्, तथाहि -
" गीयत्थो य विहारो बीयो गीयत्थमीसितो भणिओ । इत्तो तइअविहारो नाणुन्नाओ जिणवरेहिं ११" ॥ इत्यादिना गीतार्थतन्निश्रातिरिक्तविहारो निषिद्धः, तथा - "एगाणिस्स दोसा इत्थी साणे तहेव पडिणीए । भिक्खुविसोहि महव्वय तम्हा सबिइज्जए गमणं १२" ॥ इत्यादिना एकाकिनः सतो भिक्षाटने स्त्रीकृतसंक्षोभे इच्छानिच्छाकृताविशुद्धिः, सहायाभावाशङ्कितश्वादिपराभवः, एकाकिता
१० प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्व संयतः । अज्ञानी किं करिष्यति किं वा शास्यति छेदपापकम् ॥ ११ गीतार्थश्ध विहारो द्वितीयो गीतार्थमिश्रितो भणितः । इतस्तृतीयविहारो मानुज्ञातो जिनवरैः ॥
१२ एकाकिनो दोषाः, स्त्री श्वा तथैव प्रत्यनीकः । मिक्षुविशुद्धिमहाव्रतानि, तस्मात्स द्वितीयके गमनम् ॥