________________
गर्गापवादादिपर्यालोचनासम्भवेन विपर्यासोपपत्तेः, स्तोकस्य तु न भवत्यपि व्यवहारतस्तत्र पतनम् , आपाततः श्रुतसंवादाद, निश्चयतो निश्चयनयमाश्रित्य, नियमात्सर्वथैव तत्क्रियाया अज्ञाने पतनम् , आपाततः श्रुतसंवादिन्या अपि तत्क्रियायाः क्षयोपशमविशेषसहकार्यभावेन विशिष्टनिर्जरां प्रत्यप्रत्यलत्वेनाकिश्चित्करत्वात् । इत्थं च,
"अपरिच्छिअसुअणिहसस्स केवलमभिन्नसुत्तचारिस्स। सव्वु जमेण वि कयं अनाणतवे बहुं पडई" ॥
इत्याद्यागममनुसृत्य तेषु स्तोकज्ञानसम्भावनया न व्यामोहो विधेयो, मार्गानुसारित्वाभावे दोषस्य मृदुमध्यादिमावेऽपि मार्गानुसारिफलानुपपत्तेः ॥९॥ __ अथ कीदृशोऽवक्रगामी स्यादित्याह - मग्गणुसारी सड्ढो पनवणिजो कियावरो चेव । गुणरागी जो सकं आरभइ अवंकगामी सो ॥१०॥ ____मार्गानुसारी निसर्गतस्तत्त्वानुकूलप्रवृत्तिरपायहेतुक्लिष्टकर्मविगमादुपशमात्, एष चाभिलषितावाप्ति प्रत्यवन्ध्यकारणं कान्तारगतप्रतिनियतपुरप्राप्तियोग्यतायुक्तान्धस्येव, न चैवं श्रुतातिशयानुपयोगप्रसङ्गः, विशिष्य तत्त्वप्रतिपत्तौ तदुपयोगात् , योग्यतामात्रस्य च तत्त्वविषयौघसंज्ञानमात्रहेतुत्वात् , दृश्यते हि नीलादिधीयोग्यतामात्रातदतिशयाच नीलादिविषयकसामान्यविशेषधीविशेष इति । तथा श्राद्धस्तत्वं प्रति श्रद्धावान् स्वप्रत्यनीकले. शहासातिशयावाप्तव्यमहानिधानग्रहणविधानोपदेशश्रद्धालुनरवत् वि.
७ अपरिच्छिन्नश्रुतनिकषस्य (0). केवलमभिन्नसूत्रचारिणः । . सर्वोधमेनापि कृतं अज्ञानतपसि बहु पतति ।