________________
हितानुष्ठानरुचि, अत एव हेतुद्वयात् प्रज्ञापनीयः कथञ्चिदना: भोगादन्यथाप्रवृत्तौ तथाविधगीतायन सम्बोधयितुं शक्यत्वात्तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधिग्रहणान्यथाप्रवृत्तमुकरसम्बोधननरवत् , तथाऽत एव हेतोः, क्रियापरचारित्रमोहनीयकर्मक्षयोपशमजनितमुक्तिसाधनानुष्ठानकरणपरायणः, तथाविधनिधानग्रहणव्यापृतपुरुषवत् , चः समुच्चये, एवोऽवधारणे, तथा गुणरागी विशुद्धाध्यवसायतया स्वगतेषु परगतेषु वा गुणेषु ज्ञानादिषु रागः प्रमोदो यस्यास्त्यसौ मत्सरविरोधिपरिणामवानित्यर्थः, इदं हि गुणलाभानुबन्धेऽवन्ध्यं बीजं प्रतिबन्धकस्य मत्सरस्यापगमात्, तथा यः शक्यं स्वकृतिसाध्यं गुरुवालग्लानादिविषयवैयावृत्त्याधनुष्ठानमारभते, न त्वशक्यं अशक्यारम्भस्योत्तरकालमावश्यकपरिहाणिशरीरग्लान्यादिजनकत्वेनोत्तरोत्तरशुभानुबन्धानुवृत्त्यनुपपत्तेः, आज्ञाशुद्धं प्रेक्षापूर्वकं स्वसाध्यानुष्ठानं हि सुवर्णघटसदृशम्, तद्विपरीतं च मृन्मयघटसदृशं निरनुबन्धत्वात् , इति हि समयविदः शक्यमारभत इत्युक्त्या नाशक्यमारभते, न च शक्ये प्रमाद्यतीत्यपि लभ्यते, सोऽवक्रगामी नान्यः क्रियामात्रपर इति, इत्थं च आज्ञापारतन्त्र्यं विना न शुद्धिरिति व्यवस्थितम् ॥१०॥ . .
नन्वेवमेकाकिविहार उत्सीदेदेवेत्यत आहएत्तोऽपनवणिजा असक्कमेगागिचारमिच्छंता । आणाबज्झा गेया सुत्तं गीयत्थविसयं तु ॥११॥ ___इत आज्ञापारतन्त्र्यस्यैव चारित्राङ्गत्वात् , अप्रज्ञापनीया गुरुकुलवासत्यागो नोचित इति दृढनिर्बन्धेनापि गीतार्थबोधयितुमशक्याः, अशक्यं तथाविधज्ञानाभावेन खतन्त्रतयाऽलभ्यचारित्र