________________
१४७ लमोहाघशुभकर्मविपाकेषु लोकलोकोत्तरभेदभिन्नेषु जन्तुषु, द्वेषस्यतदर्शनतत्कथाधसहिष्णुत्वतद्हणलक्षणस्य, वर्जना युक्ता श्रेयसी, तत्परिहारादौ तु न द्वेषः किन्तु धर्माथित्वात् माध्यस्थ्यमेवेति भावनीयम् । ननु द्वेषवर्जना मध्यस्थस्य सुशका, प्रमत्तपाखंडिजनाकुलत्वात् प्रायो विहारक्षेत्राणामसंविमपरिहारस्तु दुःशक इत्यत्राह-कारणेऽपि दुर्भिक्षराजक्षोभाधुपप्लववशेनान्यत्र स्थित्यभावरूपे सति, तहिन्ति तत्र यत्रासंविग्नास्तिष्ठन्ति, वसितव्यं भावानुपघातेन सम्यक् प्रज्ञानरूपस्य शुद्धसमाचाररूपस्य च भावस्य यथोपघातो न भवति तथा ॥१४७॥ .
ननु कारणेऽप्यसंविमसमीपेऽवस्थाने स्वपरोपघातप्रसंगः, गुणमत्सरिभिरसंविग्नेचौर्याधध्यारोपस्य कथश्चिदुपलब्धस्य प्रमादाचरितस्य सुदूरविस्तारणस्य तथाविधकुलेष्वनपानव्यवच्छेदादेश्व करणात्, स्वतस्तेषां पापबन्धस्य बोधिघातफलस्य संभवाञ्च, न चैतदोषपरिहाराय वंदनादिना तदनुवर्तनापि युक्ता, तथा सति तद्गतयावत्प्रमादस्थानानुमतिप्रसङ्गादित्यत आहअणुवत्तनावि कज्जा अरत्तदुट्टेण कारणे तेसि । अगहिलगहिलनिवेणिव दवेणं बंदणाई ॥१४॥
कारणे समुत्पने, तेषामरक्तद्विष्टेन रागद्वेषयोरन्तरालवतिना सता, अनुवर्तनापि अनुकूलभावसंपादकचेष्टापि, कार्या विधेया, कैरित्याह द्रव्येण न तु भावेन, वन्दनादिभिरपवादविघ्युक्तवाग्नमस्कारादिप्रकारैः, इत्यं च न तद्तदोषानुमोदनं, भाववन्दनादिनैव तत्संभवात् । अत एव यत्र स्वल्पोऽपि दर्शनादिगुणसदावो दृश्यते तत्र तावत्यैव भक्त्या तद्वन्दनादिना न तद्तदोषानुमतिः।