________________
पर्ववत्, कुत्रचित्काले क्षेत्रे वा केनचित्संविग्नगीतार्थत्वादिगुणभाजा कालिकाचार्यादिनाऽसावधं मूलोत्तरगुणाराधनाऽविरोधि, तथा न-नैव निवारितमन्यैश्च तथाविधैरेव गीताथैः अपि तु बहु यथा भवत्येवं मतं बहुमतमेतदाचरितम् ॥१४॥ दीसंति बहू मुंडा दूसमदोसवसओ सपखेऽवि । ते दूरे मोत्तव्वा आणासुद्धेसु पडिबंधा ॥ १४६ ॥
एवंविधाज्ञासिद्धिः सांप्रतं यथा भवति तथा हि दृश्यन्ते, स्वपक्षेऽपि किं पुनः परपक्ष इत्यपिशब्दार्थः, बहवो मुंडाः श्रमणगुणमुक्तयोगिनो हया इवोदामा, गजा इव निरंकुशाः, शिरोमुंडाः, दुःषमादोषवशतः पंचमारकवैगुण्यबलात् । तदुक्तम्
"कलहकरा डमरकरा असमाहिकरा अणिज्बुइकरा य। होहंति भरहवासे बहुमुंडा अप्पसमणा य ६८॥"
ते दूरेण मोक्तव्या विषवत् परिहर्त्तव्याः, तथा आज्ञाशुदेषु सम्यगधीतजिनागमाचारवशात् शुद्धिमागतेषु साधुषु श्रावकेषु वा प्रतिबन्धो बहुमानः कार्यः॥१४६॥
नन्वेवमन्येषु परिहर्त्तव्यत्वेन द्वेषसंभवे माध्यस्थ्यहानिरित्यत आहभवठिइनिरूवणेणं इयरेसु वि दोसवजणा जुत्ता। भावाणुवधाएणं वसिअव्वं कारणे वि तहिं ॥१४७॥ .... भवस्थितिरियमेतेषां यतः कर्मगुरवोऽद्याप्यकल्याणिनो न जिनधर्माचरणं प्रति प्रहपरिणामा जायन्त इति चिन्तारूपेण, इतरेष्वपि जिनवचनप्रतिकूलानुष्ठानेष्वपि समुपस्थितदुर्गतिपातफ६८ कलहकरा डमरकरा असमाधिकरा अनिवृतिकराच।
भविष्यन्ति भरतवर्षे बहुमुंडा अप (ल्प) श्रमणाश्च ।।